SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ सू०४।६] क्षणभङ्गवादः ने चानन्तरातीतानागतक्षणयोः प्रत्यक्षस्य प्रवृत्तौ सरणप्रत्यभिज्ञानुमानानां वैफल्यम्। तत्र तेषां साफल्यानभ्युपगमात्, अतिव्यवहिते तदङ्गीकरणात् । न चाक्षणिकस्यात्मनोऽर्थग्राहकत्वे खगतवालवृद्धाद्यवस्थानामतीतानागतजन्म परस्परायाः सकलभावपर्यायाण चैकदेवोपलम्भप्रसङ्गः, ज्ञानसहायस्यैवार्थग्राह-५ कत्वाभ्युपगमाद, तस्यं च प्रतिवन्धकक्षयोपशमाऽनतिक्रमेण प्रादुर्भावान्दोक्तदोषानुषङ्गः । न च द्रव्यग्रहणेऽतीताधवस्थानां ततोऽभिन्नत्वाद्रहण प्रसङ्गः, अभिन्नत्वस्य ग्रहणं प्रत्यनङ्गत्वात्, अन्यथा ज्ञानादिक्षणानुभव सञ्चेतनादिवत् क्षणक्षयवर्गप्रापणशक्त्याद्यनुभवानुषङ्गः । तस्मा-१० द्यत्रैवास्य ज्ञानपर्यायप्रतिवन्धापायस्तत्रैव ग्राहकत्वनियमो नान्यत्रेत्यनवद्यम्-'आत्मा प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं प्रतिपद्यते' इति, स्मरणप्रत्यभिज्ञानसहायश्चातिव्यवहितपर्यायेष्वपि । तयोश्च प्रामाण्यं प्रांगेव प्रसाधितम् । ननु स्मरणप्रत्यभिज्ञानयोः पूर्वोपेलब्धार्थविषयत्वे तदर्शनकाल १५ एवोत्पत्तिप्रसङ्गः, तदर्शनवत्तद्विषयत्वेनानयोरप्यविकलकारणत्वात्, न चैवम् , तस्मान्न ते तद्विषये प्रयोगः-यस्मिन्नविकलेषि यन्न भवति न तत्तद्विषयम् यथा रूपेऽविकले तत्राभवच्छोत्रविज्ञानम् , न भवतोऽविकलेपि च पूर्वोपलव्धार्थे स्मृतिप्रत्यभिज्ञाने इति; तदप्यपेशलम् । तदर्शनकाले तयोः कारणाभावे.२० नाऽप्रादुर्भावात् । न ह्यर्थस्तयोः कारणम् ; ज्ञानं प्रति कारणत्वस्यार्थे प्रांगेव प्रतिपेधात् । स्मरणं हि संस्कारप्रबोधकारणम् , १ प्रत्यक्षादिसहाय इत्यत्रादिग्रहणं निरर्थकमित्युक्ते आह । २ घटकपाललक्षणयोः । ३ जैनेन । ४ नित्य आत्मातीतानागतपर्यायानेकदैव ग्रहीष्यतीत्युक्ते आह । ५ अङ्गीक्रियमाणे जैनैः। ६ स्वतोऽभिन्नानां पर्यायाणाम् । ७ जैनैः। ८ ज्ञानेन युगपद्ग्रहीष्यतीत्युक्ते आह। ९ शानस्य । १० प्रतिबन्धकं कर्म । ११ युगपन्मरणावधि-- ग्रहणलक्षण। १२ शानम् । १३ अकारणत्वात् । १४ संसारिणः । १५ पदार्थ ! १६ तव सौगतस्य । ज्ञानादिलक्षणादभिन्नसद्भावात्। १७ घटकपाललक्षणयोः। १८ एकत्वं प्रतिपद्यते। १९ स्मृतिप्रत्यभिज्ञानयोः प्रामाण्यं न विद्यते, तत्सहाय आत्मातिव्यवहितपर्यायेघु कथमेकत्वं जानीयादित्युक्ते सत्याह । २० तृतीयाध्याये । २१ प्रत्यक्षेण । २२ स उपलब्धोर्थो विषयो ययोस्ते तत्वे । २३ प्रत्यक्ष । २४ स उपलब्धार्थों विषयो ययोस्ते। २५ अनुत्पाद्यमानत्वात्। २६ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवदित्यत्र द्वितीयपरिच्छेदे। २७ तहिं सरणप्रत्यमिशानयोः कारणं किमित्युक्ते आह।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy