SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ सू० ४५ ब्राह्मणत्वजातिनिरासः भवदभ्युपगमेन । क्रियाभ्रंशे तजातिनिवृत्तौ च बोत्येप्यस्या निवृत्तिः स्यात्तद्भशाविशेषात् । किञ्च, क्रियानिवृत्तौ तज्जातेर्निवृत्तिः स्याद् यदि क्रिया तस्याः कारणं व्यापिका वा स्यात्, नान्यथातिप्रसङ्गात् । न चास्याः कारणं व्यापकं वा किश्चिदिष्टम् । न च नियाभ्रंशे जातेर्विकारोस्ति;५ "भिन्नवासिन्ना नित्या निरवयवा च जाति।" ] इत्यभिधानात् । न चाविकृताया निवृत्तिः सम्भवत्यतिप्रसङ्गात् । किञ्चेदं ब्राह्मणत्वं जीवस्य, शरीरस्य, उभयस्य वा स्यात् , संस्कारस्य वा, वेदाध्ययनस्य वा गत्यन्तरासम्भवात् ? न तावजीवस्य; क्षत्रियविशूद्रादीनामपि ब्राह्मण्यस्य प्रसङ्गात् , तेषामपि १० जीवस्य विद्यमानत्वात् । लापि शरीरस्य; अस्य पञ्चभूतात्मकस्यापि घटादिवद् ब्राह्मण्यासम्भवात् । न खलु भूतानां व्यस्तानां समस्तानां वा तत्सम्भवति। व्यस्तानां तत्सम्भवे क्षितिजलपवनहुताशनाकाशानामपि प्रत्येक ब्राह्मण्यप्रसङ्गः । समस्तानां च तेषां तत्सम्भवे घटादीनामपि १५ तत्सम्सवः स्यात् , तत्र तेषां सामस्त्यसम्भवात् । नाप्युभयस्य उभयदोषानुषङ्गात् । नापि संस्कारस्य; अस्य शूद्रवालके कर्तुं शक्तितस्तत्रापि तत्प्रसङ्गात् । किञ्च,संस्कारात्प्राग्वाह्मणवालस्य तदस्ति वा,न वा? यद्यस्ति;२० संस्कारकरणं वृथा। अथ नास्ति; तथापि तवृथा। अव्राह्मणस्याप्यतो ब्राह्मण्यसम्भवे शूद्रवालकस्यापि तत्सम्भवः केन वार्यंत ? नापि वेदाध्ययनस्य; शूद्रेपि तत्सम्भवात् । शूद्रोपि हि कश्चिदेशान्तरं गत्वा वेदं पठति पाठयति वा । न तावतास्य ब्राह्मणत्वं भवद्भिरभ्युपगम्यत इति । ततः सदृशक्रियापरिणामादिनिवन्ध-२५ नैवेयं ब्राह्मणक्षत्रियादिव्यवस्था इति सिद्धं सर्वत्र सदृशपरिणामलक्षणं समानप्रत्ययहेतुस्तिर्यक्सामान्यमिति । किं पुनरूर्वतासामान्यमित्याह १ नित्यत्वादिरूपाया जातेः ततो नास्ति क्रियानंश इत्यर्थः । २ कदाचिनमस्कारहीनेपि। ३ अग्निनिवृत्तौ धूमनिवृत्तिरतोऽग्निः कारणं धूमस्य तद्वत् । '४ वृक्षनिवृत्तौ शिंशपात्वनिवृत्तिरतो वृक्षः शिंशपाया व्यापकस्तद्वत् । ५ घटनिवृत्ती पटनिवृतिः स्यात् । ६ क्रिया-सन्ध्यावन्दनादिः। ७ नाशरूपः । ८ आत्माकाशादेरपि निवृत्तिः स्यादिति । ९ वेदाध्ययनमात्रेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy