________________
सू० ४.५] ब्राह्मणत्वजातिनिरासः ४८५ कारविशेपो वा स्यात् , अध्ययनादिकं वा? न तावदाकारविशेषः; तस्याब्राह्मणेपि सम्भवात् । अत एवाध्ययनं क्रियाविशेषो वा तत्सहायतां न प्रतिपद्यते । दृश्यते हि शूद्रोपि स्वजातिविलोपाद्देशान्तरे ब्राह्मणो भूत्वा वेदाध्ययनं तत्प्रणीतां च क्रियां कुर्वाणः। ततो ब्राह्मण्यजातेः प्रत्यक्षतोऽप्रतिभालनात्कथं व्रतवन्धवेदाध्य-५ यनादि विशिष्टव्यक्तावेव सिद्ध्येत् ?
यदप्युक्तम्-'ब्राह्मणपदम्' इत्याद्यनुमानम् ; तत्र व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्वद्धत्वं तत्पदस्थाध्यक्षवाधितम्, कठकलापादिव्यक्तीनां ब्राह्मण्यविविक्तानां प्रत्यक्षतो निश्चयात्, अश्रावणत्वविविक्तशब्दवत् । अप्रसिद्ध विशेषणश्च पक्षः; न खलु १० व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयाभिसम्बद्धत्वं मीमांसकस्यास्माकं वा कंचित्प्रसिद्धम् , व्यक्तिभ्यो व्यतिरिक्ताव्यतिरिक्तस्य सामान्यस्याभ्युपगमात् ।
हेतुश्चानैकान्तिकः; सत्ताकाशकालपदे अद्वैतादिपदे वा व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावेपि पदत्वस्य भावात् । १५ तंत्रापि तत्सम्वद्धत्वकल्पनायाम् सामान्यवत्वेनाद्वैताश्वविषाणदेवस्तुभूतत्वानुषङ्गात् कुतोऽप्रतिपक्षा पक्षसिद्धिः स्यात् ? सत्तायाश्च सामान्यवत्त्वप्रसङ्गः, गगनादीनां चैकव्यक्तिकत्वात्कथं सामान्यसम्भवः ? दृष्टान्तश्च साध्यविकलः, पटादिपदे व्यक्तिव्यतिरिक्तकनिमित्तत्वासिद्धेः।।
२० एतेन वर्णविशेषेत्याद्यनुमानं प्रत्युक्तम् । नगरादौ च व्यक्तिव्यतिरिक्तैकनिमित्तनिवन्धनाभावेषि तथाभूतज्ञानस्योपलम्भाँदनेकान्तः । न खलु नगरादिज्ञाने व्यतिरिक्तमनुवृत्तप्रत्ययनिवन्धनं किञ्चिदस्ति, काष्ठादीनामेव प्रत्यासत्तिविशिष्टत्वेन प्रासा
१९
१ ब्राह्मणे। २ ब्राह्मण्य । ३ साध्यधर्मः। ४ अश्रावणत्वविविक्तशब्दस्याध्यक्षतो निश्चयाद्यथाऽप्रावणः शब्द इति पक्षः प्रत्यक्षबाधितस्तथेत्यर्थः। ५ दृष्टान्ते । ६ भिन्नशानजनकत्वे भिन्न व्यक्तिभ्यः, पृथक्कर्तुमशक्यत्वादभिन्नं सामान्यमिति । ७ मीमांसकैजनैश्च । ८ पदत्वादिति । ९ आदिना अश्वविषाणादिपदे। १० साध्याभावे । ११ हेतोः। १२ इदमेव विवृणोति । १३ घटादिवत् । १४ अर्थस्य । १५ परमते । १६ एषां भेदा उपचरिता इत्यर्थः। १७ नैकव्यक्तिकं सामान्यमिति वचनात् । १८ गगनत्वादि । १९ इति साध्याभावो दर्शितः। २० पटादिपदव"दिति । २१ नित्यसर्वगतादिरूपसामान्य। २२ पदत्वानुमाननिराकरणेन। २३ पदे। २४ साध्याभावे । २५ वर्णविशेषादिनिमित्तबुद्धिवैलक्षण्यस्योपलम्भात् । २६ नगरमिति शानोपलम्भात् । २७ व्यक्तः सकाशात् ।