SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ सू० ४५] सामान्यस्वरूपविचारः तंदभावपि सद्भावाद् घटे पार्थिववुद्धिवत् ॥" मी० श्लो० वनवाद श्लो० ४ ] तत्सिद्धसाधनम् ; व्यक्तिव्यतिरिक्तसदृशपरिणामालम्बनत्वातस्याः । यञ्च सामान्यस्य सर्वगतत्वसाधनमुक्तम् "प्रत्येकसमवेतार्थविषया वाथ गोमतिः। प्रत्येकं कृत्स्मरूपत्वात्प्रत्येक व्यक्तिवुद्धिवत् ॥ १॥" । [मी० श्लो० वनवाद श्लो० ४६] प्रयोगः-येयं गोवुद्धिः सा प्रत्येकसमवेतार्थविषया प्रतिपिण्डं कृत्स्नरूपपदार्थाकारत्वात् प्रत्येकव्यक्तिविषयवुद्धिवत् । एकत्वम-१० प्यस्य प्रसिद्धमेव; तथाहि-यद्यपि सामान्यं प्रत्येकं सर्वात्मना परिसमाप्तं तथापि तदेकमेवैकांकारवुद्धिग्राह्यत्वात् , यथा नञ्यु. क्तवाक्येषु ब्राह्मणादिनिवर्त्तनम् । न चेयं मिथ्या; कारणदोषवा. धकप्रत्ययाभावात् । उक्तञ्च "प्रत्येकसमवेतापि जातिरेकैकबुद्धितः। नयुक्तेष्विक वाक्येषु ब्राह्मणादिनिवर्त्तनम् ॥ १ ॥ नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नात्र कारणदोषोस्ति बाधकप्रत्ययोपि वा ॥२॥" [मी० श्लो० वनवाद श्लो० ४७-४९] तदप्युक्तिमात्रम् । प्रतिपिण्डं कृत्स्नरूपपदार्थाकारत्वस्य सदृश-२० परिणामाविनाभावित्वेन साँध्यविपरीतार्थ साधनस्य विरुद्धत्वात् । नित्यैकरूपप्रत्येकपरिसमाप्तसामान्यसाधने दृष्टान्तस्य साध्यविकलता। तथाभूतस्य चास्य सर्वात्मना वैहुषु परिसमाप्तत्वे सर्वेषां व्यक्तिभेदानां परस्परमेकरूपतापत्तिः एकव्यक्तिपरिनिष्टितखभावसामान्यपदार्थसंसृष्टत्वात् एकव्यक्तिखरूपवत् । सामान्यस्य २५ १ शावलेयाभावेपि खण्डादिगोबुद्धिसद्भावात् तदभावेऽपि शावलेयादेस्तत्सद्भावादित्यर्थः। २ गोबुद्धेः। ३ श्वेतपीतादिविशेषमन्तरेण यथा घटे पृथिवीत्वसामान्येन पार्थिवबुद्धिः। ४ न केवलमेकगोत्वनिबन्धना। ५ एकामेका व्यक्तिं प्रति। ६ गोमतेः। ७ गौगौरिति प्रत्ययः। ८ अर्थो गोत्वलक्षणसामान्यम् । ९ गोत्वादिसामान्य । १० अयं गौरयं गौरिति । ११ नायं ब्राह्मणो नायं ब्राह्मण इत्यादि । १२ एकमेव । १३ इन्द्रियादि । १४ गौगौरिति। १५ हेतोः। १६ सदृशपरिणामः-साध्यम् । १७ सर्वगतत्व । १८ असर्वगतत्वे । १९ व्यक्तीनां नित्यत्वमेकरूपत्वं च नास्ति यतः। २० एकत्वानुमाने दूषणमाह । २१ विशेषेषु । २२ अभिन्नत्वात् , तादाल्यापन्नत्वात्।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy