________________
४७३
सू० ४५] . सामान्यस्वरूपविचारः तद्देशे सद्भावात् , अंशवत्तया वा स्यात् ? न तावद्मनादन्यत्र पिण्डे तस्य वृत्तिः निष्क्रियत्वोपेगमात् ।
किञ्च, पूर्वपिण्डपरित्यागेन तत्तत्र गच्छेत् , अपरित्यागेन वा? न तावत्परित्यागेन, प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्यागोरूपताप्रसङ्गात् । नाप्यपरित्यागेन, अपरित्यक्तप्राक्तनपिण्डस्यास्यानंशस्य५ रूपादेरिव रामनासम्भवात् । न परित्यक्तपूर्वाधाराणां रूपादीदामाधारान्तरसङ्क्रान्तिर्दशा
नापि पिण्डेन सहोत्पादात्; तस्याऽनित्यतानुषङ्गात् । नापि तद्देशे सत्त्वात्; पिण्डोत्पत्तेः प्राक् तंत्र निराधारस्यास्यावस्थानाभावात् । भावे वा स्वाश्रयमात्रवृत्तित्वविरोधः।
नाप्यंशवत्तया; निरंशत्वप्रतिज्ञानात् । ततो व्यक्त्यन्तरे सामान्यस्याभावानुषङ्गः । परेषां प्रयोगः 'ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्राऽसन्तः यथा खरोत्तमाओं तद्विषाणम्, तथा च सामान्यं तच्छून्यदेशोत्पावति घटादिके वस्तुनि' इति । उक्तञ्च
१५ "न याति न च तंत्रासीदस्ति पश्चान्न चौशवत् । जहाति पूर्वमाधारमहो व्यसनसन्ततिः* ॥ १॥"
[प्रमाणवा० ११५३] ये तु व्यक्ति स्वभावं सामान्यमभ्युपगच्छन्ति
"तादात्म्यमस्य कमाञ्चेत्स्वभावादिति गम्यताम्।” [ ]२० इत्यभिधानात्; तेपा व्यक्तिवत्तस्यालाधारणरूपत्वानुषङ्गाद व्यक्त्युत्पादविनाशयोश्चास्यापि तद्योगित्वंप्रसङ्गान्न सामान्यरूपता । अथाऽसाधारणरूपत्वमुत्पाद विनाशयोगित्वं चास्य नाभ्युपगम्यते, तर्हि विरुद्धधर्माध्यासतो व्यक्तिभ्योऽस्य मेदः स्यात् ।
१ सामान्यं निष्क्रियमिति वचनात् । २ परेण । ३ व्यक्तिदेशे। ४ जटिलानाम् । ५ सामान्यमसत् अनुत्पधमानादित्वादित्युपरिष्टायोज्यम् । ६ तच्छून्यौ च तद्देशोत्पादौ चेति । ७ व्यक्त्यन्तरम् । ८ व्यक्तिदेशे। ९ व्यक्तौ भन्नायां सत्याम् । १० सामान्यस्य विशेषणम् । ११ वृथा स्थितिः। * श्लोकोयं मुद्रितपुस्तके 'व्यक्तिभ्योऽस्य भेदः स्यात्' इत्यनन्तरं मुद्रितः । प्रकरणानुरोधात् स्थानभ्रष्टो भातिसम्पा०। १२ मीमांसकाः। १३ व्यक्तिरेव स्वभावो यस्य तयोरभेदात् । १४ व्यत्या सह । १५ मीमांसकानाम् । १६ असाधारणरूपताया व्यक्तेरभिन्नत्वात् । १७ सामान्यस्य । १८ व्यक्तिसामान्ययोरभेदात् । १९ परेण । २० घटपटयोरिव: