________________
४४२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तदप्ययुक्तम् । शब्दाद्विशिष्टसङ्केतसव्यपेक्षाद्वाह्यार्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतेः स एवास्यार्थो युक्तः, न तु विकल्पप्रतिविस्वकमात्र शब्दात्तस्य वाच्यतयाऽप्रतीतेः।
अतोऽयुक्तम्-"प्रतिविम्वस्य मुख्यमन्यापोहत्वं विजातीयव्या५वृत्तस्खलक्षणस्यान्यव्यावृत्तेश्चौपचारिकम्" [ इति । अन्यापोहस्य हि वाच्यत्वे मुख्योपचारकल्पना युक्तिमती, तच्चास्य नास्तीत्युक्तम् । ततः प्रतिनियताच्छब्दात्प्रतिनियतेऽथै प्राणिनां प्रवृत्तिदर्शनात्सिद्धं शब्दप्रत्ययानां वस्तुभूतार्थविषय
त्वम् । प्रयोगः-ये परस्परासंकीर्णप्रवृत्तयस्ते वस्तुभूतार्थविषयाः २० यथा श्रोत्रादिप्रत्ययाः, परस्पराऽसङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशाब्दप्रत्यया इति । न चायमसिद्धो हेतुः; 'दण्डी विषाणी' इत्यादिधीवनी हि लोके द्रव्योपोधिको प्रसिद्धौ, 'शुक्ल: कृष्णो भ्रमति चलति' इत्यादिको तु गुणक्रियानिमित्तौ, 'गौरश्वः' इत्यादी . सामान्यविशेषोपाँधी, 'इहात्मनि ज्ञानम्' इत्यादिको १५ सम्वन्धोपाधिकावेवेति प्रतीतेः।
नैनु चाकृतसमया ध्वनयोर्थाभिधायकाः, कृतसमया वा? प्रथमपक्षेतिसङ्गः। द्वितीयपक्षे तु व तेषां सङ्केतः-स्खलक्षणे, जाँतौ वा, तद्योगे वा, जातिमत्यर्थे वा, वुद्ध्योकारे वा प्रकारान्त
रासम्भवात् ? न तावत्स्वलक्षणे; समयो हि व्यवहारार्थ क्रियमाणः २० सङ्केतव्यवहारकालव्यापके वस्तुनि युक्तो नान्यत्र । न च स्खल
क्षणस्य सङ्केतव्यवहारकालव्यापकत्वम् ; शाबलेयादिव्यक्तिविशेषाणां देशोदिभेदेन परस्परतोऽत्यन्तव्यावृत्ततयाऽन्वयाभावात् ,
१ घटपटादिलक्षणे । २ अर्थतया। ३ सम्बन्धिन्याः । ४ तथा हि । ५ शब्देन । ६ किञ्चापोहावाच्योथेत्यादिना। ७ शब्दाथोंऽपोहो विचार्यमाणो. न घटते' यतः। ८ परमार्थ । ९ बसः। १० असङ्कलित । ११ लोचनादिज्ञानानि । १२ द्वन्द्वः। १३ ध्वनिः शब्दः। १४ उपाधिः-विशेषणं कारणमित्यर्थः। १५ धीध्वनी । १६ धीध्वनी । १७ गोत्वादि । १८ अश्वादेयावर्त्तमानत्वात्तदेव विशेषः । १९ धीवनी । २० संबन्धः समवायः। २१ अत्र प्रतिविधीयते । इत्येतावतः प्राक् सौगतः पूर्वपक्षयति । २२ घटादिवाचकाः। २३ घटशब्दः पटाभिधायको भवतु सङ्केताभावात् ।. २४ सदृशपरिणामलक्षणे संकेतोस्ति । २५ बुद्धावकारे। २६ प्रतिबिम्बके । २७ क्षणिकादिरूपे। २८ प्रवृत्तिनिवृत्तिरूप । २९ स्थायिनि । ३० अव्यापके क्षणिके। ३१ आदिना खण्डमुण्डशवलादीनाम् । ३२ आदिना कालस्वरूपस्वभावाः । ३३ खण्डो मुण्डादत्यन्तव्यावृत्त इति सम्बन्धाभावात् । ३४ यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोाप्तिर्भावानामिह विद्यते।