SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ४३२ अमेयकमलमार्तण्डे [३. परोक्षपरि० नुपलमा विधिनियवहानयोग्ान्योन्यं विरोधात् कथमेकस्सात्सम्यः ? यदि च गोशब्देनागौशब्दनिवृत्तिर्मुख्यतः प्रतिपद्यते; तर्हि मोशन्दश्रणानन्तरं प्रथमतरम् 'अगौः' इत्येषा श्रोतुः प्रतिपत्तिभवेत् । न चैवम् , अतो गोवुद्धयनुत्पत्तिप्रसङ्गात् । तदुक्तम् "नन्वन्यापोहँकृच्छब्दो युष्मत्पक्षेऽनुवर्णितः। निषेधमात्रं नैवेह प्रतिभासेऽवगम्यते ॥१॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः। विधिरूपावसायेन मतिः शाब्दी प्रवर्त्तते ॥२॥" तत्त्वसं० का० ९१०-११ पूर्वपक्षे] "यदि गौरित्ययं शब्दः समर्थान्य निवर्त्तने। जनको गवि गोबुद्धि (द्धे)मुंग्यतामपरो ध्वनिः॥३॥ ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम् ।। अपवादविधिज्ञानं फलमेकस्य वैः कथम् ॥ ४॥ प्रांगेंगौरिति विज्ञानं गोशब्दश्रीविणो भवेत् । येाऽगोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥५॥" [भामहालं० ६।१७-१९] किञ्च, अपोहलक्षणं सामान्य वाच्यत्वेनाभिधीयमानं पर्युदासलक्षणं चाभिधीयेत, प्रसज्यलक्षणं वा ? प्रथमपक्षे सिद्धसाध्यता२० यदेव हगोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यते भैवता तदेवास्माभिर्गोत्वाख्यं भाँवलक्षणं सामान्यं गोशब्दवाच्यमित्यभिधीयेत, अभावस्य भावान्तरात्मकत्वेन व्यवस्थितत्वात् । कश्चायं भवतामश्वादिनिवृत्तिस्वभावो भावोऽभिप्रेतः? न तावदसाधारणो गवादिस्खलक्षणात्मा; तस्य सकलविकल्पगोचराति १ परस्परविरुद्धार्थप्रतिपादनविरोधात् । २ यत्र विधिविज्ञानं तत्र निषेधविज्ञानं नास्ति । यत्र निषेधशानं न तत्र विधिज्ञानमिति । ३ बुद्धिद्वयस्य । ४ परेण भवता । ५ अगोः निवृत्तेः पूर्वम्। ६ एव। ७ अश्वादिः। ८ अन्यथा । ९ गौरिति बुद्धिस्तस्या अनुत्पत्तिः । १० तं करोतीति । ११ बौद्ध । १२ प्रतिपादितः । १३ गौरयमित्यस्मिन् । १४ तर्हि कथं प्रतिमासः । १५ अर्थस्य । १६ अश्वादि । १७ तर्हि । १८ भवन्तु। १९ विधिनिषेधज्ञान । २० शब्दस्य । २१ विधिनिषेधलक्षणम् । २२ निषेध । २३ शब्दस्य । २४ बौद्धानाम् । २५ अगोनिवृत्तेः पूर्वम् । २६ अश्वः। २७ जनस्य । २८ कुतः। २९ गोशब्दस्यार्थत्वेन । ३० बौद्धमते । ३१ कथम् । ३२ सौगतेन । ३३ जैनैः। ३४ सत्ता । ३५ अगोनिवृत्तिलक्षणोऽभावो भावान्तरेण गोत्वेन व्यवतिष्ठते । ३६ क्षणिकनिरंशनिरन्वयरूपः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy