SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ सू० ३।९९] शब्दनित्यत्ववादः तानुसन्धानस्यानुभूयमानत्वेनाऽभावासिद्धेः । अथ गादौ वर्णान्तरे गृह्यमाणे 'अयमपि कादिः' इत्यनुसन्धानाभावान सामान्यसद्भावः, तर्हि शावलेयादावपि व्यक्त्यन्तरे गृह्यमाणे 'अयमपि वाहुलेयः' इत्यनुसन्धानाभावाद्गोत्वस्याप्यभावः। अथ 'गौ!ः' इत्यनुगताकारप्रत्ययसद्भावान्न गोत्वाऽसत्त्वम् : तदन्यत्रापि समानम्-५ तत्रापि हि 'वर्णो वर्णः' इत्यनुगताकारप्रत्ययोस्तु, तत्कथं वर्णेषु वर्णत्वस्य गादिषु गत्वादेः शब्दे शब्दत्वस्याभावः निमित्ताऽ. विशेषात् ? तथाहि-समानासमानरूपासु व्यक्तिषु क्वचिन् 'समानाः' इति प्रत्ययोऽन्वेत्यन्यत्र व्यावर्त्तते । यत्र च प्रत्ययानुवृत्तिस्तत्र सामान्यव्यवस्था, नान्यत्र । सा च प्रत्ययानुवृत्तिर्गादि-१० स्वपि समानेति कथं न तत्र सामान्यव्यवस्था ? तथाप्यत्र सामान्यानभ्युपगमे शावलेयादावपि सोस्तु । न हि तत्रापि तथाभूतप्रत्ययानुवृत्तिमन्तरेण सामान्याभ्युपगमेऽन्यनिमित्तमुत्पश्यामः । यदि चात्राऽनुगताऽवाधिताऽक्षजप्रत्ययविषयत्वे सत्यपि गत्वादेरभावः; तर्हि गादेरपि व्यावृत्तप्रत्ययविषयस्या-१५ भावः स्यात् । तथा च कैस्य दर्शनस्य पॅरार्थत्वान्नित्यत्वं साध्येत ? यच्चोक्तम्-'सादृश्येन ततोऽर्थाप्रतिपत्तेः' इति; तत्सदृशपरिणामलक्षणसामान्यविशिष्टव्यक्तेरर्थप्रतिपादकत्वसमर्थनात्प्रत्युक्तम् । यदप्यभिहितम्-सादृश्यादर्थप्रतीतो भ्रान्तः शाब्दः प्रत्ययः२० स्यात् । तद्भूमादेरग्यादिप्रतिपत्तौ समानम् । यदप्युक्तम्-'गत्वादीनां वाचकत्वं गादिव्यक्तीनां वा' इत्यादिः तत्सामान्यविशिष्टव्यक्तेर्वाचकत्वसमर्थनादेव प्रत्युक्तम् । यञ्चोक्तम्-'यो यो गृहीतः' इत्यादिः तदप्युक्तिमात्रम् ; पक्षस्यानुमानवाधितत्वात् । तथाहि-अनेको गोशब्द एकेनैकदा २५ भिन्नदेशस्वभावतयोपलभ्यमानत्वाद् घटादिवत् । न चानेकप्रतिपतृभिर्भिन्नदेशतयोपलभ्यमानेनादित्यादिना, कालभेदेन भिन्नदेशादितयोपलभ्यमानेन देवदत्तेन वा व्यभिचारः; 'एकेनैकदा' इति विशेषणद्वयोपादानात् । एकेनैकदा दर्शनस्पर्शनाभ्यां भिन्नस्वभावतयोपलभ्यमानेन घटादिना वा; 'भिन्नदेशतया' इति ३० विशेषणात् । जलपात्रसङ्क्रान्तादित्यादिप्रतिविम्वैस्तद्यभिचार, १ गत्वलक्षणं सामान्यं नास्ति तथापि वर्णत्वलक्षणं सदृशसामान्य कादिष्वस्त्येवेति जैनाभिप्रायः। २ अभावे सति। ३ गादेः। ४ उच्चारणस्य। ५ हेतोः। ६ न चेति पूर्वेण संबन्धोत्र ज्ञेयः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy