________________
सू० ३.१०] प्रत्यभिज्ञानप्रामाण्यविचारः
३४५ गतसदृशाकारदर्शनेन तथा व्यवहारं कार्यते, दृश्यानुपलम्भोपदर्शनेन घटाभावव्यवहारंवत् । तदप्यसङ्गतम् : 'प्राक्प्रतिपन्नधूमसदृशोयं धूमः' इत्यादिलिङ्गप्रत्यभिशाज्ञानस्य लैङ्गिकत्वे तल्लिङ्गप्रत्यभिज्ञाज्ञानस्यापि लैङ्गित्वलित्यवस्थाप्रसङ्गात् ।
किञ्च, अथे सादृश्यव्यवहारस्य लदृशाकारनिवन्धनत्वे सह-५ আন্টি বলাবলি?ি জামহীনাचेत्; अनवस्था । धर्मिसादृश्यव्यवहारे चान्योन्याश्रयः । तनयं सादृश्यप्रत्यभिज्ञा लिङ्गजाभ्युपगन्तव्या।
ननु गोदर्शनाहितसंस्कारस्य पुनर्गवयदर्शनाद्गवि स्मरणे सति 'अनेन समानः सः' इत्येवमाकारस्य ज्ञानस्योपमानरूपत्वान्न प्रत्य-१० भिज्ञानता । सादृश्यविशिष्टो हि विशेषो विशेषविशिष्टं वा सौदृश्यमुपमानस्यैव प्रमेयम् । उक्तं च
"तस्माद्यत्मयते तत्स्यात्सादृश्येन विशेषितम् ! प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १ ॥ प्रत्यक्षेणावबुद्धपि सादृश्ये गवि च स्मृते! विशिष्टस्योन्यतः सिद्धरुपमानप्रमाणता ॥ २॥"
[ मी० श्लो० उपमान० श्लो० ३७-३८] इति । तदप्यसमीक्षिताभिधानम्; एकत्वसादृश्यप्रतीत्योः सङ्कलना(न)ज्ञानरूपतया प्रत्यभिज्ञानतानतिक्रमात् । स एवायम्' इति हि यथोत्तरपर्यायस्य पूर्वपर्यायेणकताप्रतीतिः प्रत्यभिज्ञा, २० तथा सादृश्यप्रतीतिरपि अनेन सदृशः' इत्यविशेषात् । पूर्वोत्तर
१ अत्र घटो नास्ति दृश्यत्वे सत्यनुपलब्धेरिति । २ इयं शिशपा पूर्वदृष्टशिंशपासमाना इति च । ३ लिङ्गरूपस्य । ४ अनुमानरूपत्वे अङ्गीक्रियमाणे । ५ तद्गतधर्मस्य । ६ पर्वतधूमः पूर्वदृष्टधूमसदृशस्तत्सदृशाकारत्वात्सम्प्रतिपन्नधूमवत् । तत्सदृशाकारत्वेन समानं सदृशाकारत्वात् सम्प्रतिपन्नसदृशाकारवत्। ७ गोगवयलक्षणे। ८ गोगवयाँ सदृशौ सदृशाकारत्वाद्देवदत्तयज्ञदत्तवत्। गोगवयाकारौ सदृशौ सादृशाकारत्वात् तद्वत् । द्वितीयौ आकारौ सादृशौ सदृशाकारत्वादित्यादि । ९ त्वादि । १० मीमांसकः । ११ पश्चात् । १२ गोलक्षणो धर्मा। १३ धर्मः। १४ दृश्यमानात् । १५ गवयात् । १६ स्मर्यमाणम् । १७ वस्तु। १८ सर्यमाणगवान्वितम् । १९ उपमानस्यैवेत्यत्र यः एवकारस्तस्य संवादं दर्शयति । २० गवयगते । २१ सादृश्यविशिष्टस्य गोस्वद्विशिष्टस्य वा सास्त्रादेः। २२ सरणप्रत्यक्षाभ्याम् । २३ सरणप्रत्यक्षाभ्यां सकाशादन्यदुपमानं ततः। २४ प्रत्यभिशा । २५ सङ्कलनरूपतायाः।