SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ३२० प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० मिथ्यादर्शनादित्रयात्मकं न पुनर्मिथ्याज्ञानमात्रात्मकम् , तच्चैकस्मात्सम्यग्ज्ञानमात्रात्कथं व्यावतेत इत्युक्तं सर्वशसिद्धिप्रस्तावे। यञ्चान्यदुक्तम्-नित्यनैमित्तिकानुष्ठानं केवलज्ञानोत्पत्तेः प्राक काम्यनिपिद्धानुष्ठानपरिहारेण ज्ञानावरणादिदुरितक्षयानिमित्त ५ त्वेन केवलज्ञानप्राप्तिहेतुः; तदिष्टमेवास्माकम् । आनन्दरूपता तु मोक्षस्याभीष्यैव । एकान्तनित्यता तु तस्याः प्रतिषिध्यते । चिद्रूपतावदानन्दरूपताप्येकान्त नित्या; इत्यप्ययुक्तम् ; चिद्रूपताया अप्येकान्त नित्यत्वासिद्धः, सकलवस्तुस्वभा वानां परिणामिनित्यत्वेनाग्रे समर्थयिष्यमाणत्वात् । १० अथानित्यत्वे तस्याः तत्संवेदनस्य चोत्पत्तिकारणं वक्तव्यम: ननूक्तमेव प्रतिवन्धापायलक्षणं तत्कारणं सर्वशसिद्धिप्रस्तावे। आत्मैव हि प्रतिवन्धकापायोपेतो मोक्षावस्थायां तथाभूतज्ञानसुखादिकारणम्, घटाद्यावरणापायोपेतप्रदीपक्षणवेत् खपर प्रकाशकापरप्रदीपक्षणोत्पत्तो, तदुत्पादन[स्वभावस्यान्यापेक्षा१५योगात् । यद्धि यदुत्पादनस्वभावं न तत्तदुत्पादनेऽन्यापेक्षम् यथान्त्या कारणसामग्री खंकार्योत्पादने, तेंदुत्पादनस्वभावश्चातीन्द्रियज्ञानसुखाद्युत्पत्तौ प्रतिवन्धकापायोपेत आत्मेति । संसारावस्थायामप्युपलभ्यते-चौसीचन्दनकल्पानां सर्वत्र समवृत्तीनां विशिष्टध्यानादिव्यवस्थितानां सेन्द्रियशरीरव्यापाराऽजन्यः पर२० माल्हादरूपोऽनुभवः । अस्यैव भावनावशादुत्तरोत्तरावस्थामासादयतः परमकाष्ठा गतिः सम्भाव्यत एव। आनन्दरूपताभिव्यक्तिश्चानाद्यऽविद्याविलयात्; इत्यभीष्टमेव अष्टप्रकारपारमार्थिककर्मप्रवाहरूपाऽनाद्यविद्याविलयाद् अनन्त सुखसंज्ञानादिखरूपप्रतिपत्तिलक्षणमोक्षावाप्तेरभीष्टत्वात् । २५ विशुद्धज्ञानसन्तानोत्पत्तिलक्षणोऽप्यसौ मोक्षोऽभ्युपगम्यते । स तु चित्तसन्तानः सौन्वयो युक्तः। बद्धो हि मुच्यते नाबद्धः। १ चतुर्धपरिच्छेदे । २ अतीन्द्रिय। ३ एव । ४ घटस्थप्रदीपवत् । ५ उत्तर । ६ आत्मनः। ७ इन्द्रियवनितादेः । ८ प्रतिबन्धकापायोपेत आत्मा धर्मी अतीन्द्रियज्ञानसुखाद्युत्पत्तौ अन्यं नापेक्षते इति साध्यं, तदुत्पादनस्वभावत्वादिति शेषः । ९ अन्त्यतन्तुसंयोगः। १० पटलक्षणस्य। ११ स प्रसिद्ध उत्पादनस्वभावो यस्यात्मनः । १२ असिद्धत्वे हेतोरुद्भाविते परिहारमाह । १३ कुठार। १४ तुल्यानाम् । १५ शत्रुमित्रयोः। १६ आदिना दानम् । १७ मेदः । १८ निश्चीयते । १९ प्राप्ति । २० बौद्धविशेषैरभ्युपगतः। २१ शानस्य । २२ सद्रव्यः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy