________________
२१६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० द्यते,उपादेयकपालोत्पादस्तु स्वारम्भकावयवकर्मसंयोगविशेषादेवाविर्भवति' इति तदप्यसमीक्षिताभिधानम्, अस्य विनाशोत्पादकारणप्रक्रियोद्धोषणस्याप्रातीतिकत्वात् । केवलमन्यप्रतारितेन भवंता परः प्रतार्यते । तस्मादन्धपरम्परापरित्यागेन वल५वत्पुरुषप्रेरितमुद्रादिव्यापाराद् घटाकारविकलकपालाकारमृतव्योत्पत्तिरभ्युपगन्तव्या अलं प्रतीत्यपलापेन । __ "क्षीरे दध्यादि यन्नास्ति' इत्याद्यप्यभावस्य भावस्वभावत्वे सत्येव घटते, दध्यादिविविक्तस्य क्षीरादेरेव प्रागभावादितयाध्यक्षादिप्रमाणतोध्यवसायात् । ततोऽभावस्योत्पत्तिसामयाः १० विषयस्य चोक्तप्रकारेणासम्भवान्न पृथकप्रमाणता । इति स्थितमेतत्प्रत्यक्षेतरभेदादेव द्वेधैव च प्रमाणमिति। "तत्राद्यप्रकारं विशदमित्यादिना व्याचष्टे
विशदं प्रत्यक्षम् ॥ ३॥ विशदं स्पष्टं यद्विज्ञानं तत्प्रत्यक्षम् । तथा च प्रयोगः-विश१५दज्ञानात्मकं प्रत्यक्षं प्रत्यक्षत्वात्, यत्तु न विशदज्ञानात्मकं
तन्न प्रत्यक्षम् यथाऽनुमानादि, प्रत्यक्षं च विवादाध्यासितम्, तस्माद्विशदज्ञानात्मक मिति ।
अनेनाऽस्माद्धमदर्शनात् 'वह्निरत्र' इति ज्ञानम् , 'यावान् कश्चिद् भावः कृतको वा स सर्वः क्षणिकः, यावान् कश्चिद्धम२० वान्प्रदेशः सोनिमान्' इत्यादि व्याप्तिज्ञानं चास्पष्टमपि प्रत्यक्ष माचक्षाणः प्रत्याख्यातः; अनुमानस्यापि प्रत्यक्षताप्रसङ्गीत् प्रत्यक्ष. मेवैकं प्रमाणं स्यात् ।
किञ्च, अकस्माद्भूमदर्शनाद्वह्निरत्रेत्यादिज्ञाने सामान्यं वा प्रति. भासेत, विशेषो वा? यदि सामान्यम् ; न तत्तर्हि प्रत्यक्षम्, २५ तस्य तद्विषयत्वानभ्युपगमात् । अभ्युपगमे वा 'प्रेमाणद्वैविध्यं
प्रमेयद्वविध्यात्' इत्यस्य व्याघातः, सैविकल्पकत्वप्रसंगश्च । विशेषविषयत्वे ततः प्रवर्त्तमानस्यात्र सन्देहो न स्यात् 'ताणों - १ -परमाणु । २ ततः संयोगविशेषः। ३ ताद्विः। ४ योगेन। ५ प्रध्वंसाभावरूपा। ६ भिन्नस्य । ७ अभावप्रमाणस्य । ८ दृष्टान्तस्मरणमन्तरेण। ९ बौद्धः । १० उभयत्रास्पष्टत्वाविशेषात् । ११ प्रत्यक्षं सामान्यविषयं यदि । स्कन्धाकारपरिणतम् । १२ सौगतेन। १३ प्रत्यक्षं विशेभं गृह्णाति अनुमानं सामान्यं गृह्णाति इति बौद्धमतं न घटेत-प्रत्यक्षेणैव सामान्यग्रहणादिति । १४ ग्रन्थस्य । १५ प्रत्यक्षस्य । १६ सामान्यविषयत्वात् । १७ तुः ।