SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ १९२ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरिक युक्ता । प्रयोगः-यो यथाविधो विषयः ल तथाविशेनैव प्रमाणेन परिच्छि(च्छे)द्यते, यथा रूपादिभावो भावरूपेण चक्षुरादिना. विवादास्पदीभूताश्चाभावस्तस्मादभावः (भायेन) पारिच्छेद्यत इति। उक्तं च५ "न तु (ननु) भावादभिन्नत्वात्सम्योगोस्ति तेन च । न हत्यन्तमभेदोस्ति रूपादिवदिहापि नः ॥ १॥ धर्मयोर्भेद इष्टो हि धर्म्यभेदेपि नः स्थिते । उद्भवाभिभवात्मत्वाद्रहणं चावतिष्ठते ॥२॥" [मी० श्लो० अभाव० श्लो० १९-२०]. "मेयो यद्वभावो हि मानमप्येवमिष्यताम् । भावात्मके यथा मेये नाभावस्य प्रमाणता ॥ तथैवाभावमेयेपि न भावस्य प्रमाणता।" मी० श्लो० अभाव० ४५-४६] इति । ततःशाब्दादीनां प्रमाणान्तरत्वप्रसिद्धः कथं प्रत्यक्षानुमानभेदा१५त्प्रमाणद्वैविध्यं परेषां व्यवतिष्ठेत ? नन्वेवं प्रत्यक्षेतरभेदात्कथं भवतोपि प्रमाणद्वैविध्यव्यवस्थातेषां प्रमाणान्तरत्वप्रसिद्धरविशेषादिति चेत् ? तेषां 'परोक्षेऽन्तभवात्' इति ब्रूमः । तथाहि-यदेकलक्षणलक्षितं तद्व्यक्तिभेदेप्येकमेव यथा वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम्, अवैशबै२० कलक्षणलक्षितं च शाब्दादीति । चक्षुरादिसामग्रीभेदेपि हि तज्ज्ञानानां वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्धः प्रत्यक्षरूपतानतिक्रमात्, तद्वत् शब्दादिसामग्रीमेदेप्यवैशबैकलक्षितत्वेनैवाभेदः शाब्दादीनाम् परोक्षरूपत्वाविशेषात् । ननु परोक्षस्य स्मृत्यादिभेदेन परिगणितत्वात् उपमानादीनां प्रमाणान्तरत्वमेवे १ अभावो अभावप्रमाणपरिच्छेद्यः-तथाविधविषयात् । २ भावेन परिच्छेद्योऽभावेन' वेति । ३ तथाविधविषयत्वात् । ४ पदार्थात् । ५ अमावस्य। ६ इन्द्रियाणाम् । ७ असदंशेन । ८ रश्मि । ९ यथा रूपादेरत्यन्तमभेदोस्ति, एवं भावाभावधर्मयोरत्यन्तमभेदो नास्ति । १० धर्मस्यात्यन्तमभेदो नास्तीति कुतः ? । ११ खकीयप्रमाणाभ्यामुभयधर्मयोरपि ग्रहणं कस्मान्न स्यादित्युक्ते आह। १२ सदसदंशयोः । १३ प्रत्यक्षादिप्रमाणैः। १४ अग्रहणं च । १५ अभावरूपम् । १६ सौगतेन । १७ दृष्टान्तमाह। १८ बौद्धानाम् । १९ सौगतमतप्रसिद्धप्रमाणद्वैविध्याव्यवस्थितिप्रकारेण। २०. जैनस्य । २१ वयं जैनाः । २२ शब्दादि धर्म व्यक्तिमेदेष्येकं भवत्येकलक्षणलक्षितत्वात् । २३ स्पर्शनादि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy