SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ सू० ११७] भूतचैतन्यवादः इति तत्स्वभावस्य प्रतिभासनात् । न चार्थान्तरस्यार्थान्तरखमावेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसंङ्गात्। अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वालम्सनायत्यक्षत्वम् ; तन्न: लक्षणभेदेन तदुपपत्तेः, सातव्यं हि कर्तृत्वलक्षणं तदैव च ज्ञानक्रियया व्याप्यत्वोपलब्धः कर्मत्वं चाविरुद्धम्, लक्ष्णाधीनत्वाद्वस्तु.५ व्यवस्थायाः तथानुमानेनात्मा प्रतीयते । श्रोत्रादिकरणानि कर्तृप्रयोज्यानि करणत्वाद्वात्यादिवत् । न चौत्र श्रोत्रादिकरणानामसिद्धत्वम् । 'रूपरसगन्धस्पर्शशब्दोपलब्धिः करणकार्या क्रियात्वाच्छिदिक्रियावत्' इत्यनुमानात्तत्सिद्धेः । तथा शब्दादिज्ञानं क्वचिदा-१० थितं गुणत्वाद्रूपादिवत्' इत्यनुमानतोप्यसौ प्रतीयते । प्रामाण्यं चानुमानस्याने समर्थयिष्यते । शरीरेन्द्रियमनोविषयगुणत्वाद्विज्ञानस्य न तद्यतिरिक्ताश्रयाश्रितत्वम् , येनात्मसिद्धिः स्यादित्यपि मनोरथमात्रम्, विज्ञानस्य तहुणत्वासिद्धेः । तथाहि-न १ आत्म । २ चैतन्यस्य । ३ रूपादिलक्षणादर्थादर्थान्तरमात्मा तस्य ! ४ आत्मलक्षणादर्थादर्थान्तरं घटादित्तस्य स्वभावो रूपादि स्तेन । ५ अन्यथा । ६ घटादीनां । ७ रूपरसादिरूपेण धर्मेण प्रत्यक्षवासम्भवात् । (१) ८ कर्तृकाले । ९ स्वतत्रः कतैति वचनात् । १० क्रियाव्याप्तं कमेति वचनात् । ११ असाधारणस्वरूपम् । १२ प्रत्यक्षप्रकारेण । १३ अर्थपरिच्छित्तौ। १४ छिदौ। १५ अनुमाने। १६ प्रत्यक्षानुमानप्रकारेण । १७ आत्मनि । १८ घटाद्यर्थे यथा । १९ आत्मा । २० अस्माभिजैनैः । २१ घटादि लगादि च । २२ केन । __1 "अथात्मनः कर्तत्वादेकस्मिन् काले कर्मत्वासंभवेनाप्रत्यक्षत्वम् ; तन्नः लक्षणभेदेन तदुपपत्तेः । तथाहि-ज्ञानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः कर्तृत्वम् , तदैव च क्रियया व्याप्यत्वोपलब्धेः कर्मत्वश्चेति न दोषः । लक्षणतन्त्रत्वादस्तुन्यवस्थायाः।" प्रश० व्यो० पृ० ३९२ । 2"करणैः शब्दाग्रुपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात् । शब्दादिषु प्रसिध्या च प्रसाधकोऽनुमीयते ।" प्रश० मा० पृ०६९। "श्रोत्रादीनि करणानि कर्तृप्रयोज्यानि करणत्वात् वास्यादिवत् ।" __ प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ३४९ । 3 "शब्दोपलब्धिः करणकार्या क्रियात्वात् छिदिक्रियावत् ।" प्रश० व्यो० पृ० ३९३ । स्या० मं० का० १७। 4 "शब्दादिशानं कचिदाश्रितं गुणत्वात् ।" प्रश० व्यो० पृ. ३९३ । न्यायकुमु० पृ० ३४९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy