SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ २८ प्रमेयकमलमार्तण्डे प्रथमपरि० नच विकल्पाविकल्पयोर्युगपट्टत्तेर्लधुवृत्तेर्वा एकत्वाध्यवसायाद्रिकल्पे वैशद्यप्रतीतिः; तद्यतिरेकेणापरस्याप्रतीतेः । भेदेन प्रतीतो ह्यन्यत्रान्यस्यारोपो युक्तो मित्रे चैत्रवत् । न चाऽस्पष्टाभो विकल्पो निर्विकल्पकं च स्पष्टाभं प्रत्यक्षतः प्रतीतम् । तथाप्यनु५भूयमानस्वरूपं वैशा परित्यज्याननुभूय॑मानस्वरूपं वै(पमवैशा) परिकल्पयन् कथं परीक्षको नाम ? अनवस्थाप्रसङ्गात्-ततोप्यपरखरूपं तदिति परिकल्पनप्रसङ्गात् । युगपट्टत्तेश्चाभेदाध्यवसाये दीर्घशष्कुलीभक्षणादौ रूपादिज्ञानपञ्चकस्यापि सहोत्पत्तेरभे दाध्यवसायः किन्न स्यात् ? भिन्नविषयत्वात्तेपां तदभावे-अत १० एव स प्रकृतयोरपि न स्यात् क्षणसन्तीनविषयत्वेनानयोरप्यस्याविशेषात् । लघुवृत्तेश्चाऽभेदाध्यवसाये-खररटितमित्यादावप्यभेदाध्यवसायप्रसङ्गः । कथं चैवं कॉपिलानां बुद्धिचैतन्ययोमेंदोऽनुपलभ्यमानोपि न स्यात् ? अथानेयोः सादृश्यानेदेनानुपलम्भः, अभिभवाद्वाभिधीयते? १५ ननु किंकृतमनयोः सादृश्यम्-विषयाभेदेकृतम्, ज्ञानरूपताकृतं १८ १९ १ क्रमसत्त्वेऽपि । २ अविकल्पविकल्पयोः स्पष्टाऽस्पष्टत्वेन भेदेन प्रत्यक्षतः प्रतीत्यभावे। ३ विकल्पे । ४ अवैशद्यम् । ५ सौगतः। ६ अवैशद्यधर्मात् । ७ पीतम् । ८ सविकल्पकम् । ९ परः । १० अविकल्पकविकल्पयोः । ११ सामान्य । १२ अविकल्पविकल्पयोः। १३ भिन्नविषयत्वस्य । १४ किंच। १५ विकल्पाविकल्पयोरनुपलभ्यमानभेदसम्भवप्रकारेण । १६ साङ्ख्यानाम् । १७ अप्रतीयमानः। १८ अनुपलभ्यमानत्वान्न सिध्येत् । १९ अभ्युपगममात्रस्य तत्रापि सद्भावात्। २० परः। २१ विकल्पेतरयोः। २२ पृथक्त्वाध्यवसायस्य । २३ पराभवात् । २४ परेण । २५ भा (तृतीया)। 1 'मनसोर्युगपद्वृत्तेः सविकल्पाऽकल्पयोः।। विमूढः सम्प्रवृत्तेर्वा ( लघुवृत्तेर्वा ) तयोरैक्यं व्यवस्यति' ॥ प्रमाणवा० ३ । १३३ 2 'विकल्पज्ञानं हि संकेतकालदृष्टत्वेन वस्तुगृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथाच पूर्वोत्पन्नं विनष्टं शानं संप्रत्यसत् तद्वत् पूर्वविनष्टज्ञानविषयत्वमपि संप्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितार्थनाहित्वादस्फुटाभम् अस्फुटाभत्वादेव च सविकल्पकम् । ततः स्फुटाभत्वात् निर्विकल्पका...' न्यायवि० टी० पृ० २१ 3 तुलना-'अथ विकल्पाविकल्पयोः सादृश्यादभिभवाद्वा...' स्था० रत्नाकर पृ० ७९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy