SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सू० १११] इन्द्रियवृत्तिविचारः इत्यायवाच्यम् ; तन्नित्यत्वस्येश्वरनिराकरणग्रंघटके निराकरिष्यमाणत्वात् । तन्न सन्निकर्पोप्यनुपचरितप्रमाणव्यपदेशभाक् ॥ छ । एतेनेन्द्रियवृत्तिः प्रमाणमित्यभिदधानः साहयः प्रत्याख्यातः। ज्ञानस्वभावमुख्य प्रमाणकरणत्वात् तमाप्युपचारतः प्रमाणव्यवहाराभ्युपगमात् । न चेन्द्रियेभ्यो वृत्तियतिरिक्ता, अव्यतिरिक्ता५ वा घटते। तेश्यो हि यद्यव्यतिरिक्तालो; तदा श्रोमादिमात्रमेवासी, तच नुवाद्यवस्थायामप्यतीति तदापयर्थ परिच्छितिप्रसक्तेः ढुवारदिव्यवहारोच्छेदः । अथ व्यतिरिक्ता; तदाप्यसौ किं तेषां धर्मः, अर्थान्तरंवा? प्रथमपक्षे वृत्तेः श्रोत्रादिभिः सह सम्बन्धो वक्तव्यःस हि तादात्म्यम् , समवायादिर्वा स्यात् ? यदि तादात्म्यम् : १० तदा श्रोत्रादिमात्रमेवासाविति पूर्वोक्त एव दोषोऽनुपज्यते । अथ सैमवायः; तदास्य व्यापिनः सम्भवे व्यापिश्रोत्रादिसद्भावे च। __"प्रतिनियतदेशावृत्तिरभिव्यज्येत्” [ ] इति प्लवते । अथ संयोगः, तदा द्रव्यान्तरत्वप्रसक्तेन तद्धर्मों वृत्तिर्भवेत् । अर्थान्तरमसौ; तदा नासौ वृत्तिरर्थान्तरत्वात् पदार्थान्तरवत् । १५ अर्थान्तरत्वेपि प्रतिनियतविशेषसद्भावात्तेपामसौ वृत्तिः; नन्वसौ विशेषो यदि तेषां विषयप्राप्तिरूपः, तदेन्द्रियादिसन्निकर्ष एव नामान्तरेणोक्तः स्यात् । स चानन्तरमेव प्रतिव्यूढः। अथाऽर्थाकारपरिणतिः; न; अस्या बुद्धावेवाभ्युपगमात् । न च श्रोत्रा १ प्रस्तावे। २ सन्निकर्षप्रमाणनिराकरणेन। ३ नेत्रादीनामुद्धाटनादिः। ४ अभिन्ना। ५ मूर्छागतप्रमत्तादि। ६ हेतोः । ७ जाग्रद्दशायां यथा । ८ प्रबुद्ध । ९ भिन्ना । १० स्वरूपं । ११ परैः । १२ आदिपदेन संयोगः। १३ वृत्तेः श्रोत्रादिभिः । १४ नित्य एको व्यापी समवायः। १५ इन्द्रियाणां व्यक्तीक्रियते। १६ भवन्मतं नश्यति । १७ द्वयोर्द्रव्ययोः संयोगः इतिहेतोः संयोगित्वात् । १८ इन्द्रियवृत्तेः । १९ परः । २० अर्थ । २१ परः । २२ वृत्तिः । २३ परिणतेः। २४ अर्थाकार. परिणतिः किम् । २५ साङ्खयैः । २६ किंच।। 1 प्रस्तुतदिशा सन्निकर्षस्य खंडनंतत्त्वार्थचो. पृ० १६५ । प्रमाणप० पृ. ५२ । न्यायकु. चं० लि. परि० १। स्या. रत्नाकर पृ० ५४ । इत्यादिषु द्रष्टव्यं तुलनीयंच। 2 'इन्द्रियप्रणालिकया बाह्यवस्तूपरागात् सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधानावृत्तिः प्रत्यक्षम्' । योगद० व्यासमा० पृ० २७ । 'अत्रेयं प्रक्रिया इन्द्रियप्रणालिकया अर्थसन्निकर्षेण लिंगशानादिना वा आदौ बुद्धेः मार्थाकारावृत्तिः जायते' । सांख्यप्र० भा० पृ० ४७ । विषयश्चित्तसंयोगाद् बुद्धीन्द्रियप्रणालिकात् । प्रत्यक्षं सांप्रत शानं विशेषस्यावधारकम् ॥ २३ ॥ योंगकारिका ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy