SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सू० ११] कारकसाकल्यवाद: अन्योऽन्याश्रयश्च-सिद्धे हि साकल्ये तेषां सकलरूपतासिद्धिः, तत्सिद्धौ च साकल्यासिद्धिरिति । नाप्यसकलान्यतिप्रसक्तः । किञ्च यया प्रत्यासत्त्या तथाविधान्येतानि साकल्यमुत्पादयन्ति तयैव प्रमामप्युत्पादयिष्यन्तीति व्यथा साकल्यकल्पना । करणमन्तरेण प्रमोत्पत्त्यमावे साकल्येऽप्यन्यत् करणं कल्पनीयमित्यन-५ वस्था । न चाध्यक्षसिद्धत्वात्साकल्यस्यादोषोऽयम् ; आत्मान्त:करणसंयोगादेरतीन्द्रियस्याध्यक्षाऽविषयत्वात् । केवलं विशिटार्थोपलब्धिलक्षणकार्यस्याऽध्यक्षसिद्धस्य करणमन्तरेणानुपन्तेस्तत्परिकल्पना, तेच मनोलक्षणकरणसद्भावे साकल्यमेवेत्यकधारयितुं न शक्यम् । तन्न सकलकारककार्य साकल्यम्। १० नापि पैदार्थान्तरं सर्वस्य पदार्थान्तरस्य साकल्यरूपताप्रसझात् । तथा च तत्सद्भावे सर्वत्र सर्वदा सर्वस्यार्थोपलब्धिरिति सर्वः सर्वदर्शी स्यात् । ततः कारकसाकल्यस्य खरूपेणाऽसिद्धः सिद्धौ वा ज्ञानेन व्यवधानान्न प्रामाण्यम् ॥ छ॥ १ स्वभावेन । प्रत्यासत्तिः स्वभावः । २ कारकाणि। ३ परः। ४ साकल्यस्य । ५ पुनः। ६ शान । ७ अर्थापत्तिप्रमाणम्। ८ श्रेयसी (मन्यते)। ९ अर्थापत्तिप्रमाणप्रसिद्धं करणं। १० भावमनो। ११ प्रमितिरूपः पदार्थः । १२ नुः । १३ सर्वपदार्थान्तरसाकल्यरूपप्रमाणत्वात् । 1 कारकसाकल्यस्य स्वरूपं तावत् सामग्रीप्रमाणवादी जयन्तभट्टः इत्थं निरूपयति 'अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धि विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाऽबोधस्वभावा हि तस्य स्वरूपम् अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्' (न्यायमं० पृ० १२) सामग्री च कारकसाकल्यस्यैव व्यपदेशान्तरम्, अतएवायं कारकसाकल्यवादः 'सामग्रीप्रमाणवादः' इति शब्देनापि व्यपदिश्यते । तस्य च साधिका मुख्या युक्तिः इत्थम्-'यत एव साधकतमं करणम् करणसाधनश्च प्रमाणशन्दः, तत एव सामग्र्याः प्रमाणत्वं युक्तम् , तद्व्यतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शानुपपत्तः । अनेककारकसन्निधाने कार्य घटमानम् अन्यतरव्यपगमे च विघटमानं कस्सै अतिशयं प्रयच्छेत् ? नचातिशयः कार्यजन्मनि कस्यचिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात्' (न्याय मं० पृ० १३) सामग्रीप्रमाणवादस्य द्विधा उल्लेखो न्यायमंजर्या दृश्यते । एकस्तावत् पूर्वोक्त एव द्वितीयस्तु प्रकारः 'कर्तृकर्मविलक्षणासंशयविपर्ययरहिताऽर्थबोधविधायिनी बोधाऽबोधस्वभावा सामग्री प्रमाणम्' इत्यादिरूपः 'अपरे पुनराचक्षते' इति कृत्वा तत्रैव (पृ. १४) निर्दिष्टो दृश्यते । प्र. क. मा० २
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy