SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १०० रत्नकरण्डकश्रावकाचार कुलमिव गुणभूषा कन्यका संपुनीताजिनपतिपदपद्मप्रेक्षिणी दृष्टिलक्ष्मीः ।। २९ ।। मां सुखयतु सुखिनं करोतु । कासौ ? दृष्टिलक्ष्मीः सम्यग्दर्शनसम्पत्तिः । किंविशिष्टेत्याह- जिनेत्यादि जिनानां देशतः कर्मोन्मूलकानां गणधरदेवादीनां पतयस्तीर्थकर स्तेषां पदानि सुबन्ततिङन्तानि पदा वा तान्येव पद्मानि तानि प्रेक्षते श्रद्दधातीत्येवं शीला । अयमर्थः - लक्ष्मीः पद्मावलोकनशीला भवति दृष्टिलक्ष्मीस्तु जिनोक्तपद पदार्थप्रेक्षणशीलेति । कथंभूता सा ? सुखभूमिः । सुखोत्पत्तिस्थानं । केव ? कामिनं कामिनीव यथा कामिनी कामभूमिः कामिनं सुखयति तथा मां दृष्टिलक्ष्मीः सुखयतु । तथा सा मां भुनक्तु रक्षतु । केव सुतमिव जननी । किंविशिष्टा ? शुद्धशीला जननी हि शुद्धशीला सुतं रक्षति नाशुद्धशीला दुश्चारिणी । दृष्टिलक्ष्मीस्तु गुणत्रत शिक्षाव्रत लक्षणशुद्धसप्तरीलसमन्विता मां भुनक्तु । तथा सा मां सम्पुनीतात् सकलदोषकलङ्क निराकृत्य पवित्रयतु । किमिव ? कुलमित्र गुणभूषा कन्यका । अयमर्थः- कुलं यथा गुणभूषा गुणाऽलङ्कारोपेता कन्या पवित्रयति श्लाध्यतां नयति तथा दृष्टिलक्ष्मीरपि गुणभूषा अष्टमूलगुणैरलङ्कृता मां सम्यक्पु. नीतादिति ॥२९ ॥ येनाज्ञानतमो विनाश्य निखिलं भव्यात्मचेतोगतम् सम्यग्ज्ञानमहांशुभिः प्रकटितः सागारमार्गोऽखिलः । से श्रीरत्नकरण्डकामलरविः संसृत्सरिच्छोषको जीयादेष समन्तभद्रमुनिपः श्रीमान् प्रभेन्दुर्जिनः ॥ १ ॥ इति प्रभाचन्द्रविरचितायां समन्तभद्र स्वामीविरचितोपासकाध्ययनटीकायां पंचमः परिच्छेदः । Jain Education International 4004 १ निरस्य इति ख. २ श्रीमद्रत्नकरण्ड इति ग. For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy