SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४० काव्ये शरीरानुगता तन्मुखं परिचक्षते || ८ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ९ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ १० गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः ॥ ११ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ १२ नायकाख्यातखवृत्ताभाव्यर्थशंसिवक्त्रादिः सोच्छ्वासा संस्कृता गद्ययुक्ताख्यायिका । १३ धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा । १४ गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः । १५ अनिबद्धं मुक्तकादि । १६ एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितक विशेषक कलापकानि । १७ पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । इति अष्टमोऽध्यायः ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy