________________
१८९६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेकृष्णेन निजितं श्रुत्वा सात्मजं शंकरं तदा । वाणः स्यन्दनमास्थाय ययौ युद्धाय केशवम॥१५ स दृष्ट्वा सहसा कृष्णं गरुडोपरिसंस्थितम् । छादयामास गोविन्दं बहुशस्त्रास्त्रदृष्टिभिः॥१६ गदाभिः परिषैः शूलैः शक्तिभिस्तोमरैरपि । भिन्दिपालैश्च खड्डैश्च चक्रैर्वाणैर्निरन्तरम् ॥ १७ तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः । ससर्ज तस्य वाहूनां छेदनार्थं सुदर्शनम् ॥ १८ [*मुक्तं दनुजराजस्य सहस्रारं सुदर्शनम् ] । तद्धाहुकाननं तूर्ण छिन्नं चक्रे सहस्रधा ॥ १९ एतस्मिन्नन्तरे देवि पार्वती संशितव्रता । हरेः समीपमागत्य कृताञ्जलिरभाषत । २०
पार्वत्युवाचकृष्ण कृष्ण जगन्नाथ नारायण दयानिधे । दास्यस्मि तव देवेश पूर्वभावे यदृत्तम ॥ २१ त्वया दत्तं वरं मह्यं तदा कौशलपर्वते । सौभाग्यं शाश्वतं सौम्य प्रसन्नेन महात्मना ॥ २२ तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो । गौरीसौभाग्यदात्रिति मुनिभिः परिकीर्तितम् ॥ २३ तत्सत्यं कुरु गोविन्द गरुडारूढ शाश्वत । तस्मान्मम पतिं देव त्वं जीवयितुमर्हसि ॥ २४
रुद्र उवाचएवमुक्तस्ततो देव्या कृष्णः कमललोचनः । अस्त्रं संहारयामास येनासौ मोहितः पतिः ॥ २५ कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः । उत्थाय प्राञ्जलिर्भूत्वा तुष्टाव जगतां पतिम् ॥२६
शंकर उवाचकृष्ण कृष्ण जगन्नाथ भगवन्पुरुषोत्तम । परेश परमेशान अनादिनिधनाव्यय ॥ तीव्रवीर्य मनुष्येषु शरीरग्रहणात्मिका । लीलयं सृष्टसर्वस्य तव चेष्टोपलक्षणम् ॥ २८ प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत । प्रसीद मे जगत्स्वामिन्मसीदाच्युत केशव ॥ २९ त्वमेव जगतां स्रष्टा धाता हर्ता जगद्गुरुः । त्वमेव चिदचिद्वस्तु रूपं ब्रह्म सुरेश्वर ॥ ३० त्वमादिस्त्वमनादिस्त्वमीश्वरस्येश एव च । त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि ॥ ३१ समस्तामरवर्यस्त्वममय॑स्त्वं सुरेश्वर । त्वं मर्येशः स्वयोनिस्त्वं सौशील्येन तव प्रभो ॥ ३२ तव श्वासात्समुत्पन्नौ परजीवी सनातनौ । तथा पश्चापि भूतानि तव वात्सल्यगौरवात् ॥ ३३ . क्षराक्षरे परे धाम्नि ऋचो नित्यं सुराश्रये । अधि विश्वे निषेदुस्त्वद्दास्यकर्मणि नान्यथा ॥ ३४ यस्त्वां न वेद लोकेऽस्मिन्स मूढः किं करिष्यति । ये वै त्वत्परमं धाम विदुर्दास्ये मनीषिणः ॥ ते वै समासते युक्तास्त्वत्पदे त्रिदशैः समम् । सामान्यो भजते दूरे न तु नित्यं पदं तव ॥ ३६ तस्य तुर्या चारुकेशी चावस्था घटते तव । मिथुनानि तवाध्यक्ष ब्रुवते यदुशाश्वत ॥ ३७ तव नामानि कर्माणि गुणानि शाश्वतानि च । ऐश्वर्याणि गुणातीत गुणिनो ब्रुवते इमे ॥ ३८ कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते । स्वसारौ युवती प्रोक्त स्तोतारौ तव केशव ॥ ३९ त्वं प्रज्ञानं परं ब्रह्म त्वया प्रज्ञेन शाश्वत । जीवयतेन प्रज्ञेन परेणैवाऽऽत्मना त्वया ॥ ४० तस्माच्छरीरादुत्क्रम्य कृपया तब केवलम् । आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् ॥ ४१ प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिम् । सर्वान्कामानवामोति अमृतं स भवेत्तदा ॥ ४२ ।
___ * धनुश्विद्वान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ झ. फ. 'दा कैलासप। २ ङ. णात्मक । सर्वस्य तव चेप्टेयं मानलक्षणमेव तत् । प्र । ३ झ. फ. रूपाणि । ४ क. ज. मेधा वृद्धिस्तथा भृतिः । म ।