________________
१६२६
महामुनिश्रीव्यासप्रणीत- [६ उत्तरखण्डेयतोऽसौ न गता तत्र तज्जानाति शिवा स्वतः। सखीभ्य(भि)श्वोक्तमस्यास्तद्विषण्णा सा कुतोऽभवत्
देवल उवाचवैश्यवर्य शृणुष्वेदं कारणं कथयामि ते । यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ॥ ८५ . निवृत्तासु सखीष्वस्याः संपूज्य स्कन्दमातरम् । विजया पार्वती माह कौतूहलसमन्विता ॥ ८६
विजयोवाचगिरिजे श्रद्धया तुभ्यं दत्तोऽमूभिरयं बलिः । मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ॥८७ धूपदीपकनैवेद्यैः पूजिता तोषहेतवे । प्रत्युताकारणं देवि त्वं विषादं कुतो गता ॥ ८८
देवल उवाचइत्साकर्ण्य वचः सख्या देवी देववरार्चिता । अब्रवीद्विजयां वैश्य विषादे कारणं सखीम्॥ ८९
पार्वत्युवाचविजये सखि जानामि वैश्यभार्या गृहादहिः । निर्गन्तुमक्षमा गर्भधारणात्स्वविवेकतः ॥ ९० समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः । मादृश्यो न च गृह्णन्ति परहस्तकृतं बलिम् ॥ ९१ तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम् । तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ॥ ९२ यद्वतं पूजनं यच्च कर्तुं न क्षमतेऽङ्गना । तत्कारयति नाथेन न भङ्गः स्यात्तयोः सखि ॥ ९३ अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः । यतः स्वयमनागत्य तत्कृतं मे तयाऽर्चनम् ॥ ९४ न कारितं च भाऽतो भविता दोहदोऽफलः । यद्युभौ तौ समागत्य दंपती श्रद्धया पुनः॥ मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः॥
देवल उवाचस शापो न त्वया वैश्य न चैव तव भार्यया।श्रुतः सखीभिरस्या नो प्रसादश्च तयाऽर्पितः ९६ तयोरज्ञानतो वैश्य युवयो भवत्सुतः। अजानतोः प्रतिविधि परत्रात्र सुखप्रदम् ॥ एतत्ते कथितं वैश्य संतानाभावकारणम् । वसिष्ठेन यथा पूर्व दिलीपस्य महीपतेः॥ ९८ तच्छ्वा स यथा राजा नन्दिनी समतोषयत् । सस्त्रीकस्त्वं तथा वैश्य गौरी तोषय कामदाम्॥ सा यथाऽऽराधिता राज्ञे दिलीपाय ददौ सुतम् । आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति
वैश्य उवाचदिलीप इति भूपः कः का च सा नन्दिनी मुने । यामाराध्य मुतं लेभे स भूयो भूपसत्तमः॥ महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः। आराधिता कुतः सैव सुतार्थ तेन भूभुजा ॥ १०२ एतत्सर्व समाख्याहि मुने यत्पृष्टवानहम् । श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया ॥१०३ शिवशर्मोवाच
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीयपित्रा। मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं वि(प्र)चक्रमे सः ॥ १०४ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये शिवशर्मपूर्वजन्मवृत्तकथनं नाम
सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७ ।। (३) आदितः श्लोकानां समष्ट्यङ्काः-४०९८८
९७
१ ख. भूमौ ।