SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 7. १८० अशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । अधाशीत्यधिकशततमोऽध्यायः । १५७१ देव्युवाच - १ * सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो । धन्याऽस्मि शिव मान्येति दृष्टा मान्येन यत्त्वया || निरूपितमिदं पुण्यं नवमाध्यायवैभवम् । अनेकविस्मयस्वादुकथानकमयं मधु ॥ शृण्वत्या (पिवन्त्या) मम देवेश न तृप्तिर्जातु जायते । अकुण्ठा श्रवणोत्कण्ठा वर्धते वृषभध्वज ॥ असीमा महिमाम्भोधितानां श्रुतिजीवितम् । तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः || तमुद्दिश्य महाध्यायमभिधेहि कथानकम् ॥ ४ श्रीशिव उवाच -- शृणु सुश्रोणि निश्रेणि स्वर्गदुर्गस्य दुर्लभाम् । सभामिव प्रभावानां पावनी परमां कथाम् ॥ ५ आसीत्काशीपुरे विप्रः पुण्यकीर्तिपरायणः । प्रशान्तचेता निर्मुक्तहिंसाकार्कश्य साहसः ॥ निवृत्तिनिरतो नित्यं जितेन्द्रियतया तथा । धीरधीरिति विख्यातो नन्दीव मयि भक्तिमान् ॥७ निस्तीर्णनिगमाम्भोधिः सर्वशास्त्रार्थकोविदः । तस्य ध्यानपराधीनचेतसः प्रतिगच्छतः ॥ ሪ अन्तरात्मनि निर्मग्नमनसस्तत्वचक्षुषः । करावल [*म्बनं तस्य धावन्प्रीत्या ददाम्यहम् ] ॥ ९ कदाचन चमत्कारकारकं विमना मुनिः । आचान्तः किंचिन्नासाग्रे परमानन्दमेदुराम् ॥ दृशमासाद्य निद्राणकरणोऽयमवस्थितः । उपधाय विशालाक्षि विशालां द्वारदेहलीम् ॥ अशेत निशि निःशङ्कं तावलम्बेक्षणः क्षणम् । मामपृच्छद्भृङ्गिरिटिः प्रणम्य पादपङ्कजम् ॥ १२ १० ११ भृङ्गिरिटिरुवाच १३ अनेन विधिना केन विद्दितं तव दर्शनम् । तपस्तप्तं हुतं जप्यं किमनेन महात्मना । दत्ते प्रतिपदं देवो यस्य हस्तावलम्बनम् । अयं न लभते गन्तुं कस्मादस्मात्पुराद्बहिः || १४ यदृच्छया यदा काशीसीमामुल्लङ्घ्य गच्छति । न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः १५ अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषितम् । अनुग्राह्योऽस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय ॥ १६ श्रीशिव उवाच - १७ १८ १९ २० इमं भृङ्गिरिटेः प्रश्नं समाकर्ण्याहमूचिवान् । कदाचिदास कैलासपार्श्वे पुंनागकानने ॥ रणत्खेचरसुश्रोणिपूर्णस्तत्रककानने । कलकण्ठकुलालापकल्लोलितदिगन्तरे || गरुत्मदादिदात्यूहसमूहस्वरसंकुले । भ्रमद्दारुघटीय प्रोल्लसद्विन्दुदन्तुरे || मेवरू (रो) मारणिप्रान्तकदलीकन्दलालये । कस्तूरीहरिणोपेते किंनरस्वरमोहिते || रोमन्थमन्थरापाङ्गैः क्वापि कापि निषेविते । हंसः कीरेषु पाण्डित्यं कुर्वाणैः संकुले शुकैः ॥ २१ निहाद दिग्धनीरन्ध्रसमीरणविलोडिते । माधवीपुष्प निर्यामसीधुक्षीवमधुत्रते ॥ उन्मीलत्रिवली पुष्पगुच्छ सौरभनिर्भरे । प्रोत्फुल्लबकुला मोदमदमन्थरषट्पदे || सोमादुद्गतपीयूषक्षालितक्षितिमण्डले । अध्यास्य वेदिकामेकामहं क्षणमवस्थितः ॥ उद्दण्डशाखिसंघट्टस्फुटन्मन्थामुखोत्करैः । प्रकम्पिताचलच्छायो व चण्डसमीरणः || ગ્ * धनुविद्वान्तर्गतः पाठः क. ख. च. ज. ञ पुस्तकस्थः । १ क. ख. ज. अ. वर्तने । २ क. ख. ज. अ. प्रबुद्धमारथिप्रा । ३ क. ख. ज. अ. 'तः । दशश । २३ २४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy