________________
१८२
सारस्वते तृतीयचौ णा । दुःखेन क्रियते इति दुष्करः । सुरवेन क्रियतेऽसौ सुकरः । ईषदान्यः क्रियते अनेनेति ईषदायंकर दुराग्यंकरः। आन्यंकरश्चैत्रो भवता । ईषत् पीयते असौ ईषत्पान: सोमो भवता । दुःपानः सुपानः । युध संप्रहारे । दुःखेन योधयितुं शक्यः दुर्योधनः । सुखेन योधयितुं शक्यः सुयोधनः । ईषत् शासनः । दुःखेन शासयितुं शक्यः दुःशासनः । इति कृदन्ते भावाधिकारप्रक्रिया । ईषड्० ईषच्च दुश्च मुश्च ईषदुःसवस्तेषु ( स० प. ) किला० खलू च युश्च स्वल्यू (म० द्वि०) औयू सवर्णे० ईषदादिषु ईषदुःसुएतेषु त्रिपु पूर्वपदेषु सत्सु धातो: खल् यू एतौ प्रत्ययो भवतः । खकार ईषदायां भवः इत्यादौ खिति पदस्येति मुमागमार्थः । लकारो इसखीवि खमत्ययात् भेदज्ञापनार्थः। भू ईषतदुःसुपूर्वाः खल म० अ. गुणः ओअव स्वर० (म० ए०) स्रो० ईषद्भवतीति ईषद्रवः एवं दुःखेन भवतीति दुर्भवः सुखेन भवतीति सुभवः एवं करोति ईषत्क्रियते इति ईपत्करः, दुःकरः, सुकरः, एवं दुर्जयः, सुजयः, दुर्लभः, सुलभः, । युध् धातुः संमहारे । संग्रामे युध दुः पूर्वः । गुप० युवो० इति अनादशः उपधाया लघोर्गुणः स्वर० (म० ए०) स्रो० दुर्योधनः दु:खेन युध्यते इति दुर्योधनः । एवं सुयोधनः । इवि कृदन्ते भावपक्रिया ।
॥ अथ कृत्यप्रक्रिया ॥ तव्यादीनां कृत्यसंज्ञा पाणिनीयानाम् । कृत्यादिविकर्मणोरेव । तव्यानीयौ । धातोस्तव्यानीयौ प्रत्ययौ भवतः भावादौ । एध वृद्धौ । एध्यते वा एधितुमर्हमेधितव्यं एधनीयं धनं त्वया। भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भूयते वा भवितुमर्ह भवितव्यं भवनीयम् । क्रियते वा कर्तुमर्ह कर्तव्यं करणीयम् । आस्यते वा आसितुमर्हमासितव्यम् आसनीयम् । कर्तव्यः करणीयो वा धर्मस्त्वया । या प्रापणे । प्रयातुमह प्रयातव्यं प्रयाणीयम् । ईटो ग्रहाम् । गृह्यते तत् ग्रहीतव्यं ग्रहणीयम् । वृङ्संभक्तौ । वियते वा परितुं योग्यं वरितव्यं