________________
५७०
सारस्वते तृतीयवृत्ती पणनं पणः । शमु दमु उपशमे । शम्यतेऽसौ शमः । मनं दमः । श्रम खेदे ।'श्रम्यते इति श्रमः । भ्रमः । यमु उपरमे । यम्यते इति यमः। दीव्यति विश्वमनेनेति देवः। जङ्गम्यतेऽसौ जङ्गमः । हिसि हिंसायाम् ।।
मर्दामः । मद् (१० ब०) स्वर० मोनु० मदादीनी धांतूनां अप्रत्ययो भवति भावे कर्तरिच।मदी हर्षे मंद अप० स्वर० (म०ए०) स्रो० मदन मदः अत्र भावे एवं प्रमद्यते प्रकर्षेण हृष्टः क्रियते पुरुषोऽनयति ममदा स्त्रीत्वादाए । अत्र कर्मणि पधातुः व्यवहारे स्तुतौ च पण अम० स्वर० पणः। शम् दम् उपशमे शमः दमः। यम् उपरमे यमः विस्तरः। दीन्यते विश्वमनेनेति देवः पिम् बंधने आदेःष्णनःसि विपूर्वःविशेषेण सिनीते बनाति पुरुष ईश्वरोवा'अनेनेति विषयः। अम० गुणः स्वर० प्रादेश्च तथा तो सुनमा ( म० ए०) स्रो० । सूत्रम् । 'मूतौ धनः । मूतौ काठिन्ये परिच्छेदेऽर्थे चाभिधेये हन्तेरः 'प्रत्ययो भवति भावादी हन्तेर्धनादेशश्च । देधिकाठिन्यं हन्यते इति दधिधनः । परिच्छिन्नं सैन्धवं हन्यते इति सैन्धवधनः।
मूतौ धनः। मूर्ति ( स० ए० ) केरौं डित् टिलोपः स्वर० धनः (प्र० ए० ) स्रो० मूतौ कोऽर्थः काठिन्येऽर्थे पुनः परिच्छेदे परिमाणेथे वा ज्ञानविशेषे वा अ. भिधेये वाच्ये सति हतेद्धातोः अमत्ययो भवति इंतेश्च घनादेशः । हन् ५ एकत्र दधिपूर्वः द्वितीये सेंधवपूर्वः अप० धनादेशः आदे० स्वर (म०ए०) लो० कठिनं दधि दधिधनः परिछिन्नं एतावत् स्तोकं वा सैंघवं सैंधवधनः । सिंहे वर्णविपर्ययश्च । चकारादःप्रत्ययः । हिनस्तीति सिंहः । हनो वधादेशश्चाप्रत्ययः। हन्यते इति वधः । हिंसते तोः अप्रत्ययो वर्णविपर्ययश्च भवति सिंहे वर्णविपर्ययः इत्युक्तत्त्वात् । हिम हिंसायां हिंस् हिनस्तीति हिंसः अत्र वर्णविपर्ययः हस्य स्थाने सः सस्य स्याने हा इति स्वर० (प्र० ए०) लो० । सिंहः । सूत्रम् । द्वितोऽथुः । द्वितो धातोरथुः प्रत्ययो भवति भावादौ । टुवेष्ट कम्पने । वेप्यते अनेनेति वेपथुः । टुणदि समृद्धौ ।