________________
(८)
सारस्वते प्रथमवृत्तौ ।
उदान्तः प्रोच्यते । नीचैः स्थाने उच्चार्यमाणोऽनुदात्तः । नोचैर्न नीचैरिति समवृस्था स्वरितः । उदात्तादीनां तु प्रयोजनं वेदेष्वेव, अत्र तु प्रसंगादुक्तं । मुखनासिकाभ्यां कृत्वा उच्चार्यमाणो वर्णः सानुनासिकः तद्विपरीतो निरनुनासिकः, निर्गता नासिका उच्चारणकाले यस्मात्स निरनुनासिकः किंतु केवलेन मुखेनैवोच्चार्यमाण इत्यर्थः । सानुनासिको निरनुनासिकश्चेति पदे वचित्र दृश्येते अनयोरत्र लक्षणस्पानुक्तत्वात् । अथैतेषां समाहारकथनम् । यथा पंच समाना -हस्वदीर्घप्लुतभेदात् पंचदश तेऽप्युदात्तानुदात्तस्वरितभेदात् पंचचत्वारिंशत् भवन्ति ते च सानुनासि कनिरनुनासिकभेदानवतिः । एवं नवतिर्भेदाः समानानां ॥ एऐओओ संध्यक्षराणि । एषां स्वा न सन्ति ।
द्विपदमिदं सूत्रम् । एऐओओ सांकेतिकत्वाज्जसो लोपः । यद्वा ए ऐ ओ औ सांकेतिकानि चत्वारि पदानि । सन्धावक्षराणि । सन्ध्यक्षराणि यद्वा समानानामेव सन्धिना कृत्वा एषां निष्पत्तिः । यथा अकारेकारयोगे एकारः । अकारैकारयोगे ऐकारः । अकारोकारयोगे ओकारः अ ओ योगे औ यद्वा समानानां व्यंजनानां च सन्धौ मध्ये वर्तन्त इति सन्ध्यक्षराणि इति सन्ध्यक्षरसिद्धिः । सन्ध्यक्षर (प्र.ब.) जशशसोः शिः, इ । नुमयमः । इकारात्पूर्वं नकारागमः । नोपधायाः रस्य स्थानेरा पुणाऽनन्ते । स्वर० ए ऐ ओ औ एतानि चत्वार्यक्षराणि सन्ध्यक्षरसंज्ञानि भवन्ति, ततश्च एषां संध्यक्षराणां दस्वमेदा न भवन्ति दीर्घप्लुता भवन्ति परं सवर्ण स्वं न, एतेषां अष्टचत्वारिंशद्भेदा भवन्ति ४८ । यथा चतुर्णां सन्ध्यक्षराणां दीर्घप्लुत भेदात् अष्टौ तेषां चाष्टानां प्रत्येकयुदात्तानुदात्तस्वरितभेदाच्चतुर्विंशतिः, तेषां च सानुनासिकनिरनुनासिक भेदादष्टचत्वारिंशदिति ॥ ३ ॥ अथ समानसन्ध्यक्षराणां मिलितानां संज्ञामाह । सूत्रम् ।
उभये स्वराः । अकारादयः पञ्च एकारादयश्चत्वारश्चाभये स्वरा उच्यन्ते । अइउकल एएओओ ॥
द्विपदं सूत्रं । उभौ अवयवो येषां ते उभये उभय (प्र. व . ) जसी । अ इ ए| स्वर० स्वय मनाश्रितत्वेन राजन्ते शोभन्ते इति स्वराः । सवर्णै० अकारादयः पञ्च अ इ उ ऋ
१ स्मृतस्योपेक्षानर्हल मसङ्गः ।