________________
-
-
परिशिष्ट " यद्यपि सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैर्विशिष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात् सामान्यशब्द एवावतिष्ठते सामायिकमिति तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थष्वानारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं, यावत्कथिकं च प्रव्रज्याप्रतिपत्तिकालादारभ्याप्राणोपरमात् , तच भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानांच साधूनामवसेयं तेषामुपस्थापनाया अभावात् । उक्तं च
सव्वमिणं सामाइय छेयाइविसेसियं पुण विभिन्नं । अविसेसं सामाइय ठियमिह सामन्नसन्नाए ॥१॥ सावजजोगविरह त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं।
सेसाण यावकाहियं तित्थेसु विदेहयाणं च ॥३॥ तथा छेदः पूर्वपयायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच्च द्विविधा-सातिचारं निरतिचारं च, तत्र निरतिचारं यदित्वरसामायिकवतशैक्षकस्य आरोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् वर्धमानतीर्थ संक्रामतः पंचयामप्रतिपत्तौ, सातिचारं यन्मूलगुणघातिनः पुनर्वतोच्चारणं, उक्तं च
सेहस्स निरइयारं तित्थन्तरसंकमे व तं होजा।
मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१॥ 'उभयं चेति' सातिचारं निरतिचारं च 'स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरः तीर्थकाले।"
इस उल्लेखमें अजितसे पार्श्वनाथपर्यंत बाईस तीर्थकरोंके साधुओंके जो छेदोपस्थापनाका अभाव बतलाया है और महाव्रतोंमें स्थित होनेरूप चारित्रको छेदोपस्थापना लिखा है वह मूलाचारके कथनसे मिलता जुलता है। शेष कथनको विशेष अथवा भिन्न कथन कहना चाहिये ।