________________
कर्णकुतूहलम्
सा पुनः परावृत्याह, नागच्छति कुमार इति । गुणवती तां पनः प्रेरयामास, गच्छाना हठात् कशं नागम्यत इति ।
सा च पुनरागत्य विज्ञापयति, कुमार, गन्तव्यमेव तत्र सा मां हठात् प्रेरयत्यानयानयेति । गुणवत्या च राज्यासनं फेननिभा शय्या चायोजि प्रतीक्षा चागमनस्याकारि ।। ततः राजकुमारः किं जातमिति विचिन्त्य समागतो गृहान्तरे गतः। कुमारमागतमवलोक्य झटित्युत्थाय गुणवती प्रणनाम करसम्पुटं कृत्वा ह्यतिष्ठन । कुमारस्तां विलोक्य सविस्मयो जातः । किमस्या जातमन्यैवेय बभूव ।। तथा
तप्त-कान्चन-वर्णाङ्गी चलन्नेत्राञ्चलाञ्चिता । पूर्व नैतादृशी दृष्टा कुतो यातेत्यचिन्तयत् ।। ३५ ।' कदापि [२१] नेटशी दृष्टा दृश्यतेऽन्यैव सा न हि ।
किं जातमस्याश्चिन्तायां ममज्ज म नृपात्मजः ।। ३६ ॥ गुणवती ग्रहस्याह-स्वामिन् कि सस्मितत्वेनावलोक्यते सर्व अदृष्टकृतं भवति ।
येनायं चतुराननो हि भगवान लोकस्य कर्ता कृतः येनासौ हरिरीश्वरस्त्रिजगतीपालो विभुर्निर्मितः । संहतु जगतीं हरस्त्रिनयनो येन व्यधायि प्रभुदेवं तन्नं निवारितु प्रभवति ब्रह्मति यद्गीयते।। ३ ।। अदृष्टं कुमने नित्यमदृष्टे नैव नश्यति ।
श्रदृष्टजन्यं सर्वं हि राजसूनो न चिन्नय ।। ३८ ॥ गुणवत्योक्त सर्वमाकर्ण्य तत्पाणी गृहीत्वा तया सह राज्यासने स्थितोऽभवत पुनस्नौ प्रसन्नमनसा चैकस्मिन् पात्रे भोजनं चक्रतुः ससीधुपानम् । पुनः शयने स्थिती । [२२B]
रूपौदार्य गुणौदार्य शीलौदार्य विलोक्य सः । गुणवत्या नपसुतः प्रेमबद्धोऽभवत्तदा ॥ ३६ ।। हगञ्चलैः कामशरैः प्रविद्धचित्तौ नितान्तं हृतचित्तवृत्ती। परस्परं जनतुरम्बुजास्यौ तौ दम्पती बद्धविलासहासौ ॥४०॥
निनाय सकलां रात्रि गुणवत्या कुमारकः । मेने कृतार्थमात्मानं लोकोत्तरराखेन च ॥ .