________________
कर्ण कुतूहलम्
तस्मान् मित्रं तु कर्त्तव्यं जगन्मित्रं वशं नयेत् । यन्न तत्र विधातव्यं कुमारेदं विनिश्चितम् ||२६||
कुमारः - महाराज ! सत्यं परन्तु तत्कार्यवशादेव ज्ञायते ।
मित्रामित्रद्वयं लोके ज्ञायते कार्यतो भृशम् । चुम्बकस्य यथा लोहों हीरकस्य यथा घनः ||३०||
उपकृतये तब चेतो जाने राजन पर लोके । सौशील्यं तव भूयः कस्ते तुलनां समायाति ॥३१॥
श्रस्मिन्नृलोके धनम [१६A] जिंतं यै: शौर्येण राज्येन नृपैः प्रभृतम् । राजन पुनः सज्जनपात्रभूते यदर्पितं तत् फलतां प्रयाति ||३२||
राजकुमारोक्तमिदं निशम्य सप्रसादमाह -
आहवकीर्ते ! अत्र भवद्भिः सर्वथा स्थेयं भवदीयमेव सर्वमिति कथयित्वा यथेच्छं मासिकमान्हिकं कृतवान् । वासाय गृहद्वयं च दत्तम् । तच्च राजपुत्रेण सादरमङ्गीकृत्य ससुखं तत्र च स्थितं । पुनरेकस्मिन् गृहे स्वचमतिष्ठत् द्वितीये च भार्या, सा च विकला Metafat दासी चाभिज्ञा तथैत्र सकलं गृहकृत्यं क्रियते स्म ।
गृहिणी यस्य गेहे ह्यसमर्था कार्यकरणे चेत् । तस्य गृहं किल नष्टं जीवितमपि तस्य दुःखदं भवति ॥ ३२॥
१७
तो राजपुत्रेण कदापि गृहे न गम्यते । राज [१६B] सेवापरो बभूव । तस्य व्ययाय प्रत्यहं प्रध्यते स्मैका स्वर्णमुद्रा पुरुषेण केनचित् गत्वा दीयते तस्यैवमेकाब्दो गत पुरुषस्य || एकदा रात्रौ कुमारस्त्रीभवने चौराः प्रविष्टास्ततः ते न किमपि पश्यन्ति स्म ।
चौराः: -आः क्व वयमागता एतद्गृहे किमपि न दृश्यतेऽतोऽन्यगृहे प्रविश्यामः । कुतस्तया कुमारपत्न्या यदशनार्थमपेदयं तदेव गृह्यते स्म वैश्यहट्टायां स्वर्णमुद्रा प्रष्यते च ॥ ततश्चौरा एकस्य कुवेरनाम्नो वणिजो गृहं गतास्तत्र पश्यंति स्म तत्पुत्री स्वपिति । तत्र चौरैरिदं विचारितं सा कुमारवधूरत्र स्थापनीयेयं वणिक्पुत्री च पल्यंकात्तत्रेति || ते तथैवाकुर्वन् || कुमार पत्नी वणिजो गृहे स्थापिता वणिक्पुत्री च कुमारगृहे तथै] [२०] व स्थापति भूरिधनं गृहीत्वा गताश्च स्वगृहं । पुनः किं जातं तत्राह, सा वरिष:
* प्रविशाम इति साधु पाठः ।