________________
ककुतूहलम्
राजा - त्वं मे प्राणप्रियासि प्रचलनयनयोः कान्तदृक् प्रान्तपातैभित्वा चेतो मदीयं विषमशरवशं किं करोषीत्ययोग्यम् । याचे त्वाहं मनोज्ञे सरसि [११ B] जनयने सुप्रसादं कुरुष्व ते ऽहं प्रबद्धः कुरु ममवचनं सीधुपानं गृहाण || १४ ||
प्रेम्णा
राज्ञी - भोदु महारा श्रमेव्व । *
•
सीधुपानमकरोद्वनिता सा प्रियतमेन सहितानुमतिज्ञा ।
चारुचन्द्रवदनं ललनायाश्च म्बति स्म सरसं स रसज्ञः ||१५|| चारुपङ्कजमुखं जलजादयाः पश्यते स्म नृपतिः सविलासम् । दन्तवासविशद्य तिदन्तं संभ्रमद्भ्रमरनेत्रनिवासम् ॥१६॥
पीत्वां पीत्वा वक्त्रलावण्यमस्याः दृष्ट्वा दृष्ट्वा दृग्विलासैकपात्रम् । स्मृत्वा स्मृत्वा रूपसंपन्निवासं घूर्णन् नेत्रे विस्मयं सोऽभ्यगच्छत् ॥१७॥
केशाः किं रात्रिरेषा रतिपतिरनिशं तत्र शेते नितान्तं
तं द्रष्टु ं चित्तमेतद्व्यचलि समधिकं तेन तत् तत्र बद्धम् । नैवान्यत्रापि गन्तु प्रचलमपि ततः शक्यते किं ब्रवीमि प्रोद्धारं तस्य कुर्याः सरसिजव [१२ A] दने प्रेमबद्धोऽस्मि तेऽहम् ||१८|| शशिप्रभं ते मुखमम्बुजप्रभं वदन्ति ते पण्डितमानिनो बुधाः । अनन्तसाम्राज्यकलाकलाप - प्रभालसत् सीधुविलासि दृश्यते || ११||
ससीधु ते चन्द्रमुखं विलासात् क्षणं क्षणं स्वादुविशेषशालि । तिरस्कृताशेष सुधारसोत्सवं लपल्लपन् तल्लपनं पपौ सः ||२०|| निपीय तस्यामुखमम्बुजप्रभं जगाम तृप्ति न मधुत्रतो यथा । तथैव लीलायि + चकोरलोचना न तृप्तिमागात् ससुखं जहास ||२१|| नीत्वोपकण्ठं स्वकरेण बाला तत्पानपात्रं पिबतो नृपस्य । तत्रैव तस्याः प्रतिबिम्बितं मुखं पपौ सुखं स्वादुतरं नृपालः ॥२२॥
पौ मुखं सादरतोऽबला सा ससीधुपानं तृषिता सलीलम् । सहासवाग्भिर्विलसदृद्विजालिस्मितेन साक्षाद्रति [१२B] रेव कामम् ||२३||
११
* भवतु महाराज एवमेव । + लीलासु इति साधुपाठ: ।