________________
कर्णकुतूहलम्
चेटी तत्तथाकरोत् । राज्ञी स्वात्मान (EB) मलंकृत्य गन्तुं सन्नद्धा बभूव । कतिपयसखीभिः सार्द्धंगता प्रणम्या स्थिताऽभूत् । तामवलोक्य महाराजो वर्णयति
सघनो विधुरेव स प्रभो जलजे तत्र मधुत्रतौ स्थितौ । तदधः किल कीर एव वै शुचि बिम्वं परिचुम्बति स्वयम् ॥ १ ॥
अस्याः किं शशितो जनिर्जलनिधेः किंवा हरेर्गात्रतः । किं वा वारिदवृन्दतः स्वयमियं जातातिहर्षप्रदा । किंवा कामत एव • जन्मविधितो नैवाविरासीद्ध्रुवं चञ्चचारुचकोरनेत्र चपलैर्नेत्राञ्चलैर्वीक्षते ॥ २ ॥
चन्द्रः किं शशलक्ष्म नैव वदनं विभ्रद् धनुर्मण्डलं यस्माच्चैव चलन्ति भूरि विशिखा विध्यन्ति चेतश्चलम् । कि वा काञ्चनवल्लरी सकुसुमा मन्दं चलन्ती क्षितौ कान्ता या हृदि वर्त्तते मम सदा सेयं पुरस्तात् स्थिता ||३||
कान्ते ! याहि ।
. सा [ १० A] तथैव करोति स्म । तत्करं गृहीत्वा नृपः प्रार्थयते
त्वं मे वै हृदयं गतासि चतुरे मग्नं मदीयं मनः सत्यं नो चलतीव मज्जतितरां भृङ्गो यथा वारिजे । तस्मान् मां सदयं निरीक्ष्य विलसद्वामोरु नेत्राम्बलेईत्वा जीवय जीवय प्रियतमे बद्ध्वाञ्जलिं प्रार्थये ||१४||
ε
तत्र मुखमम्बुजममले नेत्र पाणी च पादौ च । मम किल मधुपश्चेतः परतो भ्रमतीव च भ्रमति ||५|| त्वं मे प्राणप्रदासि त्वयि च मम सदा वर्त्तते प्राण एव । त्वं बाले देहि देहि प्रसभमहमसौ व्याकुलस्तेन हीनः । दत्तो ऽयं मे न तेऽस्ति श्रुतिपथमगमद् वाक्यमेतत्तदीयं वक्तु ं पश्चात् प्रतापः प्रतिवचनमहो नाचकांक्ष े मृगाक्षीं ||६| राशी महाराजोक्तमाकर्ण्य सखीं वक्ति
इला महाराज किं कथेदि सुणी [१० B] दंतु ए सखी ।