________________
19595959595959599999995)
1555555555555555555555 ' शुभकर्मणां संकल्पं स्वप्नेऽकार्षीत् । इतिविशेषः ।
पुण्योदये तीर्थसमेदशैलं
प्रपूज्य योगेन हि पंचवारम् । श्रीपार्श्वकूटे प्रतिमां विदधे
सुब्रह्मचर्या स विरक्तदासः ।।3।। तदनन्तरं व्यतीते समये 1979 वैक्रमाब्दे गढ़ी (बांसवाड़ा) स्थाने श्रीसिद्धचक्रविधानमहोत्सवबेलायां श्री भगवतः-ऋषभनाथस्य परमसानिध्ये पंचेन्द्रियविषयविरक्तचित्तः सन् स केवलदासः क्षुल्लकदीक्षां विधृत्य नव्यजीवनं । सम्प्राप्तवान् । ततश्चजन्माभिधानशोभितःस केवलदासःक्षुल्लकःशान्तिसागर:-इति पवित्राख्येन विख्यातो भारतेऽस्मिन्।
तदनन्तरं सागवाड़ा (राजस्थान) नगरे 1980 वैक्रमाब्दे भाद्रपदशुक्लचतुर्दश्यां तिथौ श्री 1008 आदिनाथ दि. जैनमन्दिरे पूर्वतोऽपि
वैशिष्ट्येन सह विषयकषाय-निवृत्तस्वान्तः केवलदासः (भागचन्द्रात्मजः) - दैगम्बरीय दीक्षामात्मसात्कृतःक्षल्लकः, केवलदासः (केवलज्ञानोपासकः) तदा प्रथमःशान्तिसागरो मुनिराजोऽभूदिति महच्चित्रम् ।
विलुप्ततापस्यपरम्परां तां उज्जीव्यं शिष्यानवबोध साधुः । आचार्यधामं परिधृत्य शान्तिः
धर्मोपदेशं नगरे चकार ।।4।। लोके खलु वृत्तमेतत्प्रसिद्धं, यदेकस्मिन् काले क्षेत्रे च सूर्यद्वयस्योदये न संभवति । परमाश्चर्य दृश्यते, यत् 1933 ईशाब्दे व्यावरनगरस्य प्रांगणे वर्षायोगे मार्तण्डद्वयस्य पश्चिमदिशि संवृत्तः उदयः-(1) श्रीशान्तिसागरः (दक्षिणः), (2) श्रीशान्तिसागरः (छाणी)। उभयोः वैशिष्ट्यं प्रदर्श्यते :
लोकसूर्यः लोकध्वान्तं निराकृत्य प्रकाशं करोति स्म। शान्तिभानः मानवाज्ञानतिमिरं दूरीकृत्य प्रकाशं (ज्ञान) करोति स्म।
लोकसूर्यस्य सघनमेधैराच्छादनं बभूव, परं शान्तिसूर्यस्य केनापि समाच्छादनं नैवाभूत्।
लोकसूर्यः पश्चिमदिशि अस्तंगतः, परं शान्तिसूर्यः कस्यामपि दिशि नाभूदस्तंगतः।
किं च-भुवनभानुः राहुणा ग्रस्तोऽभूत् । शान्तिमार्तण्डस्तु केनापि राहुणा प्रशममूर्ति आचार्य शान्तिसागर छाणी स्मृति-ग्रन्थ
माया