________________
तस्वसहा।
तारतम्यादिकारणाभावादलक्षितविशेषा भवति, येन स्मरणान्तराधिशिष्यते ॥२००६॥ स्वादेतत्कथमवसीयते प्रासाध्यवसायोऽत्राति स्मृतेरित्याह-गृहीत इत्यादि ।
गृहीत इति कोऽप्येवं नान्यथा मरणं भवेत् । शुद्धस्फटिकसंकाशं वेचते मरणं नच ॥ २०७७ ॥ कम्बुपीतादिविज्ञानैर्हेतोः पश्चिमयोरपि ।
अनेकान्तिकता व्यक्तं दिगेषाऽन्यत्र साधने ॥ २०७४ ॥ यदि अनुपलक्षितविशेष प्राममपि सा स्मृतिर्नाध्यवस्येत् , तदा कोऽपि गृहीत इत्येवमपि सामान्याकारेण प्रापप्रत्यवमर्शने न प्रवर्तेत । नचापि केवलो प्राहाकारानहितमूर्तितया ग्राहकः शुद्धस्फटिकसंकाशः स्मर्यते । येनोच्यते-"स्मरन्ति प्राहकोत्पादं प्राबरूपविवर्जितम्” इति । तस्मात्तत्स्मरणे तदस्मरणमसिद्धम् ॥ यो च ज्ञानोत्पत्ते नत्वादितीमौ पश्चिमौ हेतू तयोः पीतशङ्खादिज्ञानं ज्ञानोत्पन्नमपि स. खांशं पीताचाकारं गृहाति, यथा च ज्ञानमपि सत् ज्ञानांशस्य पीतादेवस्य बोधक भवति, तथाऽन्यदपीति व्यभिचारिता हेत्वोः । साधितं च पीतशादिज्ञानस्य निरालम्बनत्वम् , अतएवात्मगतस्य पीताद्याकारस्य वेदनात्स्वसंवेदनं सिद्धमित्येतदपि प्रतिपादितम् । एषा दिगिति । अन्यत्रापि-बहिरर्थसाधने परोपन्यस्ते, एषादूषणदिक् । यदुक्तं परेण-कथमद्वयं साध्यत्वेनेष्टम् , किं भासमानस्स नीलाघाकारस्य ज्ञानरूपस्य च अनुभवसिद्धस्थाभावात्कथमिदं नाम योज्यते तथासति सर्वाभावप्रसनः स्यात् । अत्र वक्तव्यम् । न सर्वाभावो यस्मात्स्यव्यतिरिक्तस्य प्रापस पृथिव्यादेः स्खलक्षणतोऽसत्वात् । सन्तानान्तरस्य तु प्राह्मरूपेणाभावात् प्राणाकारशून्यं वदपेक्ष्य प्रकल्पितं तु यद्विज्ञानस्य कर्तृत्वं विजानातीति विज्ञानमिति कृत्वा तसाभावाद्वाहकाकारशून्यं, न तु विज्ञानस्खलक्षणस्यापि, सर्वस्य सर्वेणाभावात् । वयाचोकम्-'नीलपीतादि यज्ज्ञाने बहिर्वदवभासते । तत्र सत्यमतो नास्ति विज्ञेय तत्ववो बहिः ।। तदपेक्षा व संवितेर्मता या कर्तृरूपता । सा न सत्यमतः संविदा हुयेऽपि विभाव्यत" इति । एवं च कृत्वा, अयमपि प्रज्ञापारमितापाठः सुनीतो भवति-विज्ञानं विज्ञानखभावेन शून्यं लक्षणशून्यतामुपादायेति ॥ २०७७ ॥ ॥२०७८॥ . एवं-पपज्ञानमित्यादौ मौले प्रयोगे हेतोः साध्येन व्याप्ति प्रसाध्योपसंहरतिविवादासदमित्यादि।