________________
पविकासमेवः। रूपविषयं विज्ञानं जनयचक्षु रूपस्य प्रकाशकमुच्यते । विज्ञानं तु न किंचिद्रपे करोति विरूपस्यैव ज्ञानकत्वात् । नचाकुर्वत्किंचित्प्रकाशकं युज्यतेऽतिप्रसङ्गात् । तस्मात् । उपमा-सादृश्यम् ।। २०२९॥
यत्संवेदनमित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारमानवादिनं प्रति प्रमाणयति ।
यत्संवेदनमेव स्थावस्य संवेदनं ध्रुवम् । तस्मादव्यतिरिक्तं तत्ततो वा न विभिद्यते ॥ २०३० ॥ यथा नीलधियः खात्मा द्वितीयो वा यथोडपः ।
नीलधीवेदनं चेदं नीलाकारस्य वेदनात् ॥ २०३१ ॥ यस्य संवेदनं यत्संवेदनम् , तदेव यस्य संवेदनं नियमेन, नान्यत् , तस्मात्-प्रथमयच्छन्दवाच्यात् । अमिन्नं कृतमेकान्तेन । तत्-द्वितीयं यच्छब्दवाच्यम् । यद्वा विपर्ययेणाभेदः साध्यः । एतदुक्तं भवति । (यत्) यस्मादपृथक्संवेदनमेव तत्तस्मादभिनं, यथा नीलधीः स्वस्वभावात् । यथा वा तैमिरिकज्ञानप्रतिभाभासी द्वितीय उडुपः-चन्द्रमाः । नीलधीवेदनं चेदमिति पक्षधर्मोपसंहारः। धर्म्यत्र नीलाकारतद्धियौ । तयोरभिन्नत्वं साध्यधर्मः । यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवाचार्यांये सहोपलम्भनियमादित्यादौ प्रयोगे हेत्वर्थोऽमिप्रेतः । तत्र भदन्तशुभगुप्तस्त्वाह-विरुद्धोऽयं हेतुर्यस्मात्-"सहशब्दश्च लोकेऽन्यो(स्या ?) वाने(न्ये ?)न विना क्वचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥” इति । तदेतसम्यक् । यस्य विपक्ष एव भावः स विरुद्धो हेतुः। नचास्य विपक्ष एव, सपक्षेऽपि भावात् । तथाहि-चन्द्रद्वयस्य सहोपलम्भाभिमानोऽस्त्रि लोके, नच तयो दोऽस्ति परमार्थतः । अथच सह शशिद्वयोपलम्भात्सहेति वक्तारो भवन्ति । एवमिहापि ज्ञानादव्यतिरिक्तमपि बहिरिव भासमानमाकारं द्वितीयं कृत्वा कल्पितभेदनिबन्धनः सहशब्दः प्रयुक्तः । नहि सर्वः शाब्दो व्यवहारो यथावस्तुनिवेशी, येन सहशब्दप्रयोगमात्रेण वस्तुप्रतिबद्धस्य लिङ्गस्यान्यत्वं स्यात्, यतो वि. रद्धो हेतुर्भवेत् । पुनः स एवाह-यदि सहशब्द एकार्थस्तदा हेतुरसिद्धः-तथाहि नटचन्द्रमल्लप्रेक्षासु नटेकेनैवोपलम्भो नीलादेः । नापि नीलतदुपलम्भयोरेकेनेवो. पलम्भः । तथाहिनीलोपलम्भेऽपि तदुपलम्मानामन्यसन्तानगतानामनुपलम्भात् ।