________________
परिकासमेतः।
स्यादेतत्किमित्यात्मानमन्तरकंस्य बासमेव प्रकाशयतीत्याह-प्रकाशकत्वमित्यादि।
प्रकाशकत्वं बायोऽर्थे शत्त्यभावातु नात्मनि ।।
शक्तिश्च सर्वभावानां नैवं पर्यनुयुज्यते ॥ २०१६ ॥ किमित्यात्मप्रकाशने शक्तिर्नास्तीत्याह-शक्तिश्च सर्वभावानामित्यादि । यथाह -"अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम्” इति ॥ २०१६ ॥ ननु चेत्यादिना प्रतिविधत्ते।
ननु चार्थस्य संवित्तिानमेवाभिधीयते ।
तस्यां तदात्मभूतायां को व्यापारोऽपरो भवेत् ॥२०१७॥ यदुक्तं व्याप्तं ह्यर्थवित्ताविति तदसंगतम् , नार्थवित्तिरन्या ज्ञानात् । तथाहि वित्तिरुपलब्धिरर्थप्रतीतिर्विज्ञप्तिरिति ज्ञानमेवैतैः पर्यायैरमिधीयते । तस्यां चार्थवित्तौ तदात्मभूतायां-ज्ञानात्मभूतायां कीदृशोऽपरो ज्ञानस्यार्थसंवेदनात्मको ब्यापारो भवेदात्म्यव्यतिरिक्तो येनार्यवित्तौ व्यापृतमिति भवेत् । न चात्मन्येव व्याटतिर्युक्ता ॥ २०१७ ॥
स्यादेतज्ज्ञानात्मत्वमेवार्थवित्तेः कथं सिद्धं, येन पर्यायता ज्ञानार्थसंवित्त्योरित्याह -अर्थस्यानुभवो रूपमित्यादि ।
अर्थस्यानुभयो रूपं (तच ज्ञानात्मकं यदि।। तदर्थानुभवात्मत्वं ज्ञाने युक्तं नचास्ति तत् ॥ २०१८॥ उपेतार्थपरित्यागप्रसङ्गात्तस्य तु खतः।
जातेऽप्यनुभवात्मत्वे नार्थवित्तिः प्रसिद्ध्यति ॥ २०१९ ॥ अर्थस्यानुभवोऽवश्यं रूपं स्वभावोऽङ्गीकर्तव्यः । अन्यथा कथं तत्र ज्ञानं व्याप्रियेत । नवसति शशविषाणादौ कस्यचिव्यापारणं युक्तम् । ततश्च तदर्थानुभवात्मक रूपं स्वभावो यदि शानादव्यतिरिक्तं भवेत्तदा ज्ञानेऽर्थानुभवात्मकत्वं यत्तदुक्तम्ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमिति, तयुक्तं स्यात् । कदाचिभिर्बध्यमानोsभानुभवाव्यतिरिकं ज्ञानमभ्युपगच्छेदपि पर इत्याह-नचास्ति तदिति । तत्शानाव्यतिरिक्तत्वमनुभवस । उपेतोऽर्थ:-अभ्युपगतो शानस्सात्मसंवेदमविरहलक्षण, तम परित्यागप्रसङ्गः । ज्ञानस्यार्यानुभवाव्यतिरेकाभ्युपगमे स्वसंविचित्र