________________
रुप्यम्-वेगवेदकवित्तिमेदेन ।। २००१ ॥ २००२॥ अथापि सादापस्याप्यात्मसंविचिवद्विनैव प्रासपाहकमावेन संविधिभविष्यतीसाह नहि तद्रूपमित्यादि।
नहि तद्रूपमन्यस्य येन तद्वेदने परम् ।
संवेयेत विभिन्नत्वादावानां परमार्थतः ॥ २००३ ॥ यद्यप्यसदाविल्यावृत्त्या सदादिरूपमेकं भावेषु कल्प्यते तथाऽपि तस्स प्रतिपादनार्थम् , परमार्थतो भेदादेकत्वं नास्त्येवेत्याह-परमार्थत इति ॥ २००३॥
स्यादेतद्यदि नाम भिन्नो बाझोर्थो ज्ञानात्, तथापि वेद्यो भविष्यति ज्ञानवदित्याह-बोधरूपतयेत्यादि ।
बोधरूपतयोत्पत्ते नं वेयं हि युज्यते ।
न स्वर्थों बोष उत्पन्नस्तदसौ वेद्यते कथम् ॥ २००४ ॥ एवं खसंदवेनं प्रसाध्य, बाह्यस्येदानीं यथा निराकारेण ज्ञानेन वेदनमयुक्त तथा प्रतिपादयन्नाह-निर्भासीत्यादि ।
निर्भासिज्ञानपक्षे तु तयोर्मेदेऽपि तत्त्वतः। प्रतिविम्बस्य तादूप्याद्राक्तं स्यादपि वेदनम् ॥ २००५॥ येन त्विष्टं न विज्ञानमाकारोपरागवत् ।
तस्यायमपि नैवास्ति प्रकारो वायवेदने ॥ २००६ ॥ प्रतिबिम्बस्येति । ज्ञानाकारस्य । ताप्यादिति । सारूप्यात् । भातमिति । अमुख्यम् । अयमपीति । अमुख्यखाद्रूप्यादुपकल्पितः ॥ २००५ ॥ २००६ ॥
अथापि स्याद्यथा खगो हस्त्यादिकं छिनति, यथा वा वहिझिं दहति, न चैते खड्गादयो हत्यादिरूपाः, तथा शानमप्रतिपनविषयाकारमपि विषयं परिच्छेत्स्यतीति, एतत् स्यान्मतिरित्यादिना शङ्कते ।
स्थान्मतिर्दन्तिदाबादेर्यथाऽसिज्वलनादयः।
अताद्रूप्येऽपि कुर्वन्ति छेददाहायदस्तथा ॥ २००७॥ छेददाहादीत्येतदपेक्ष्य दन्तिदासादेरिति षष्ठी । अद इति । एतज्जानम् । आदिशब्देन प्रदीपादयो नीलादीनां यथाप्रकाशका इत्यादि गृह्यते ॥ २००७ ॥ तदिदमित्यादिनोत्तरमाह ।