________________
२७९
पखिकासमेतः। आदिशब्देन मलयादिपरिग्रहः । एते ह्यनेकाणुप्रचयस्वभावाः, अतो नैषामशेषावयवपरिग्रहेण समयः समस्ति । प्रसाधितोदयानन्तरविनाशाश्च । तेनैतेष्वपि समयकालपरिदृष्टस्य स्वभावस्य न व्यवहारकालेष्वन्वयोऽस्तीति नासिद्धता हेतोः॥८७५॥ __ एवं तावत्स्वलक्षणे व्यवहारानुपपत्तेः समयवैयर्थ्यप्रसङ्गान समयः सम्भवतीति प्रतिपादितम् । साम्प्रतमशक्यक्रियत्वादेव न सम्भवतीति प्रतिपादयन्नाह-अशक्यमित्यादि।
अशक्यं समय(स्यास्य जातेऽजाते च कल्पनम् ।) नाजाते समयो युक्तो भाविकोऽश्वविषाणवत् ॥ ८७६ ॥ उप(नापि?)जाते गृहीता(नां पूर्व) वाचामनुस्मृतौ ।
क्रियते समयस्तत्र चिरातीते(कथं नु तत्)॥ ८७७ ॥ सर्व एव भावाः पूर्व प्रसाधितोदयानन्तरापवर्गास्तेषु समयः क्रियमाणः कदाचिदनुत्पन्नेषु वा क्रियेत, उत्पन्नेषु वा । तत्र न तावदनुत्पन्नेषु परमार्थेन समयो युक्तः, असतः सर्वोपाख्याविरहलक्षणत्वेनाधारत्वानुपपत्तेः । भाविकग्रहणं सांवृतनिषेधार्थम् । तेनाजातेऽपि पुत्रादौ समयदर्शनान दृष्टविरोधः, तस्य विकल्पनिर्मितार्थविषयत्वेनाभाविकत्वात् । अश्वविषाणवदिति । सप्तम्यन्ताद्वतिः । नाप्युत्पन्ने समयो युक्तः, तथाहि-तस्मिन्ननुभवोत्पत्तौ सत्यां तत्पूर्वके च नामभेदस्मरणे सति समयः कार्यो नान्यथाऽतिप्रसङ्गात् । ततश्च नामभेदस्मरणकाले क्षणध्वंसितया चिरनिरुद्धं खलक्षणमिति, नाजातवज्जातेऽपि भाविकः समयः समस्ति, समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् । तथाानुभवावस्थायामपि तावत्तत्कारणतया स्खलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति । किं पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति ॥ ८७६ ॥ ८७७ ॥
अथापि स्यात्तज्जातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समयः करिष्यत इति, अत आह—यश्चापीत्यादि ।
यश्चापि (तत्सजातीयस्तहालेन तदापरः।
न तत्र समयाभोगः सादृश्यं च विकल्पितम् ॥ ८७८ ॥ ... यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति, तथापि तत्र समयाभोगासम्भबाम समयो युक्तः, न अधमुपलभ्य तमामस्मरणोपक्रमपूर्वकं समयं कुर्वाणखकाल.