________________
पलिकासमेतः। ननु प्रयोजनविशेषार्थितैव पुंसः प्रयोजनविशेषसंशयोत्पत्तिहेतुः प्राग्विद्यत एव । तथाहि प्रयोजनविशेषाकाङ्क्षापरिगतमनसः प्रथमतरमेवं भवत्येव, किमिदमस्मदधिगतप्रयोजनेन सप्रयोजनम् ? आहोखिदन्येन ? किं वा निष्प्रयोजनमिति; तत्साधकपाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । प्रयोजनविशेषप्रतिपादकशास्त्रान्तरोपल
धेश्च । अतो भवत्येव प्रागपि प्रयोजनविशेषविषयसंशय इति व्यर्थः प्रयोजनवाक्योपन्यासः । नैतदस्ति । यद्यपि प्रयोजनविशेषार्थितापि संशयविशेषहेतुर्भवति । तथापि न सा सर्वेषां संमुखीभवति । अव्युत्पन्नपुरुषार्थानां मूढधियां केषांचिदसंमुखीभावात् । तथाहि-मोक्षः परमपुरुषार्थतया सिद्धः, अथ च सन्ति केचिदव्युत्पन्ना ये तमपि परमपुरुषार्थ पुरुषार्थतया न जानन्ति । प्राग्ये न तं प्रार्थयिष्यन्ते ते । न वा संमुखीभूता प्रयोजनविशेषाकाङ्क्षा प्रयोजनविशेषविषयसन्देहोत्पत्तिहेतुर्युक्ता, कारणसत्ताधीनत्वात्कार्याणाम् । यदि नाम सा केषांचिदपि संमुखीभवति, तथाप्यसौ साधनान्त परित्यागेन प्रतिनियतसाधनोपादानहेतोः संशयविशेषस्य हेतुर्न भवति; सर्वत्र साधकबाधकप्रमाणाभावेन तस्यास्तद्धेतुत्वेन न्यायप्राप्तत्वात् । न चैतावन्मात्रेण प्रवृत्तियुक्ता । सर्वत्र प्रवृत्तिप्रसङ्गात् । न च शक्यं केनचित्सर्वत्र प्रवर्तितुमित्यतः फलविशेषार्थिनोऽपि प्रतिनियतसाधनपरिप्रहनिबन्धनाभावादुदासीरन् । तस्मात्प्रतिनियतसाधनपरिग्रहहेतुप्रयोजनविशेषविषयसंशयोत्पादनायात्यन्तपरोक्षार्थविषयागमप्रणयनवत् फलविशेषार्थिना प्रतिनियतसाधनपरिप्रहायामिधानीयमेव प्रयोजनवाक्यम् । तथा हि तेनास्यैव शास्त्रस्यार्थविशेष उपदर्श्यते नान्यस्य । अतोऽनेन प्रतिनियतसाधनसाध्यफलविशेषविषयः संशयो जन्यते । स च श्रोता कदाचिन्ममायमर्थविशेषो निष्पत्स्यत इति प्रयोजनवाक्योपजनितात् प्रयोजनविशेषविषयादत्यन्तपरोक्षार्थविषयागमोपजनितादिव संशयात्प्रवर्त्ततापीत्यतः प्रयोजनवाक्योपन्यासः ।।
अवश्यं चैतदेवं विज्ञेयम् , अन्यथाऽत्यन्तपरोक्षार्थविषयागमप्रणयनमपि व्यर्थ स्यात् ; प्रागप्यागमप्रणयनादानादिषु फलविशेषार्थिनां साधकबाधकप्रमाणाभावेन तसशयस्य विद्यमानत्वात् । किं त्वसावव्युत्पन्नवर्गादिफलानां नैवोत्पद्यते । तत्कारणभूतायाः फलविशेषार्थिताया असंमुखीभावात् । येषां चोपजायते तेषामपि सर्वतोपलादिभक्षणेऽपि प्रवृत्तिहेतुतया साधारणत्वादुपलादिभक्षणपरिहारेण (न) प्रतिनियतदानादिपरिप्रहहेतुर्भवतीति मत्वा तदर्थमागमप्रणेवृमिरागमः प्रणीयते तद्वत्प्रयो