________________
[ ३२ ] ॥३५॥ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६ ॥ शुक्ले चाये पूर्वविदः ॥३७॥ परे केवलिनः ॥३८॥ पृथक्त्वकैत्ववितकसूक्ष्म क्रियाप्रतिपातिव्युपरतक्रिया निवर्तीनि ॥ ३९ ।। येकयोगकाययोगयोगानाम् ॥४०॥ एकाश्रये सवितर्कबीचारे पूर्व ॥४१॥ अवीचारं द्वितीयम् ॥४२॥ वितक श्रुतम् ॥४३॥ वीचारो ऽर्थव्यञ्जनयोगसंक्रातिः ॥४४॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकापशान्तमोहक्षपकक्षीणमोहजिना क्रमशोऽसंख्येयगुणनिजराः ॥ ४५ ॥ पुलाकबकुशकुशी लनिर्गन्थस्नातका निम्रन्थाः ॥ ४६॥ संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥ ४७ ॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ।। ६ ।। मोहक्षयाज्ज्ञानदशनावरणान्तरायक्षयाच केवलम् ॥१॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥
औपशमिकादिभव्यत्वानां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥४॥ तदनन्तरमध्वं गन्छंत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसंगत्वाद्वन्धछेदात्तथागतिपरिणामाश्व॥ ६॥ प्राविद्धकुलालचक्रवद्व्यपगतलेपालांबुवदेरण्डवीजवदग्निशिखाबच ॥७॥ धर्मास्तिकायाभावात् ।। ८॥ क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥९॥
इति तत्वार्थाधिगमे मोक्षशास्त्र दशमोऽध्यायः ॥ १० ॥
-