________________
[ ३० ] नारकतैर्यग्योनमानुषदैवानि ॥ १० ॥ गतिजातिशरीराङ्गोपाङ्ग निर्माणबंधनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूव्यगुरुलघूपधातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्म पर्याप्तिस्थिरादेययशाकीर्तिसेतराणि तीर्थकरत्वं च॥ ११ ॥ उचैनींवैश्च ॥ १२ ॥ दानलामभोगोपभोगवीर्याणाम् ॥ १३ ॥ आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १४ सप्ततिर्मोहनीयस्य ॥ १५ ।। विंशतिर्नामगोत्रयोः॥१६॥त्रयस्त्रिंशत्सागगेपमाण्यायुषः॥१७॥ अपरा द्वादशमुहुर्ता वेदनीयस्य । १८॥ नामगोत्रयोरष्टौ ।।१९।। शेषाणामतर्मुहूर्ताः ॥ २०॥ विपाकोऽनुभवः ॥ २१ ॥ स यथानाम ॥ २२ ॥ ततश्च निर्जरा ।। २३॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तान्तप्रदेशाः ॥ २४ ॥ सद्वेद्यशुभायुनोमगोत्राणि पुण्यम् ।। २५ ।। अतोऽन्यत्पापम् ॥ २६॥
इति तत्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोध्यायः ॥ ८॥ अस्रवनिरोधः संवरः ॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षा. परीषहजयचारित्रः॥ २ ॥ तपसा निर्जरा च ॥ ३ ॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमक्षमामाद्वार्जवसत्यशौचसंयमतपस्त्यागाऽकिञ्चन्यब्रह्मचर्याणि धर्मः ॥६॥ अनित्याशरणसंसारकत्व न्यत्व। शुच्यास्वसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः