________________
[ २२ ]
रत्नशर्करा बालुकापङ्कधू मतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः || १ || तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चानैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् || २ || नारका नित्याशुभतरलेश्या परिणाम देहवेदनाविक्रियाः || ३ || परस्परोदीरितदुःखाः ||४|| संक्लिष्टासुरोदीरितदुःखाच प्राक्चतुर्थ्याः ॥ ५ ॥ तेष्वेक त्रिसप्तदश सप्तदशद्वाविंशतित्रयत्रिशत्सागरोपमा सच्चानां परा स्थितिः || ६ || जम्बूद्वीपलवणो दादय: शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विद्विविष्कम्भाः पूर्वपरिचेपिणो वलयाकृतयः ||८|| तन्मध्ये मेरुनाभिर्वृत्तो योजन शेत सहस्र विष्कम्भो जम्बूद्वीपः ||९|| भरत हैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधर पर्वताः ॥ ११॥ हेमार्जुन तपनीय वैडूर्य रजतहेममयाः ।। १२ ।। मणिविचित्रपार्थ्या उपरि मूले च तुल्यविस्ताराः ॥ १३ ॥ पद्ममहापद्मतिमिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ प्रथमो योजन सहस्रायामस्तदर्द्धविष्कम्भो हृदः ||१५|| दशयोजनावगाहः ||१६|| तन्मध्ये योजनं पुष्करम् ॥ १७ ॥ तद्विगुणद्विगुणा हृदाः पुष्कराणि च ॥ १८ ॥ तन्निवासिन्यो देव्यः श्रीही धृतिकीर्तिबुद्धिलक्ष्म्यः पन्योपमस्थितयः ससामानिकपरिषत्काः ।। १९।। गङ्गासिंधुरो हिद्रोहितास्याहरिद्धरिकान्ता सीता सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ||२०|| द्वयो
·