________________
तत्त्वार्थमूत्र
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तच्यार्थश्रद्धानं सम्यग्दर्शनम् ॥ २॥ तनिसर्गादधिगमाद्वा ॥ ३ ॥ जीवाजीवासमबन्धसंवरनिर्जरामोक्षास्तत्त्वम्॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥ प्रमाणनयैरधिगमः।। ६ ॥ निर्देशस्वामित्व साधनाधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च॥८॥ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥ तत्प्रमाणे ॥ १०॥ माद्ये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ अवग्रहहाऽवायधारणाः॥ १५॥ बहुबहुविधक्षिप्राऽनिःसृताऽनुक्तध्रवाणां सेतराणाम् ॥ १६ ॥ अर्थस्य ॥ १७॥ व्यञ्जनस्यावग्रहः ॥१८॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ श्रुतं मतिपूर्व द्वचनेकद्वादशभेदम् ।। २० ।। भवप्रत्ययोऽवधिदवनारकाणोम् ॥२१॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ ऋजुविपुलमती मनःपर्यायः ॥ २३ ॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ २४॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्ययोः॥ २५ ॥ मतिश्रतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥२६॥ रूपिष्ववधेः