________________
को. ७ ]
अतीन्द्रियाणामनुमानात् प्रतीति: ।
सामान्यतस्तु दृष्टात् अतीन्द्रियाणाम्प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६ ॥
""
सामान्यत ” इति । ‘तु' शब्द: प्रत्यक्षपूर्ववद्भयां विशिनष्टि । सामान्यतो दृष्टानुमानादतीन्द्रियाणां प्रधानपुरुषादीनां (५२) अतीन्द्रियाणां सामान्यतो दृष्टादनुमानात् प्रतीतिः - चितिच्छायापत्तिर्बुद्धेरध्यवसाय इत्यर्थः प्रतीतिः उपलक्षणं चैतत् शेषवदित्यपि द्रष्टव्यम् ॥
T: 11
किं सर्वेष्वतीन्द्रियेषु सामान्यतो दृष्टमेव प्रवर्तते ? । तथा च यत्र तन्नास्ति, महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च तत्र तेषामभावः प्राप्त इत्यत आह- तस्मादपि " इति । तस्मादित्येतावतैव सिद्धे 'च' कारेण शेषवदित्यपि समुच्चितम् ॥ ६ ॥
"I
(५३) सामान्यतो दृष्टादनुमानादसिद्धानामातागमात् सिद्धिः ॥
"
स्यादेतत्, यथा गगनकुसुमकूर्मरोमशशविषाणादिषु प्रत्यक्षमप्रवर्तमानम् (५४) प्रत्यक्षाभावात् तदभावमवगमयति, एवं प्रधानादिष्वपि । तत्कथं प्रधानादीनामभावशङ्का || तेषां सामान्यतो दृष्टादिभ्यः सिद्धिरित्यत आहअतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याव्यवधानात् अभिभवात् समानाभिहाराश्च ॥ ७ ॥
"
-
१. यथा कौमुद्यां तथैवेयं कारिका व्याख्याता गौडपादेनाथ जयमङ्गलायाम् ॥ इदमपरमपि व्याख्यानमुपलभ्यते चन्द्रिकायाम् - 'सामान्यतः ' साधारणस्य वस्तुजातस्य प्रतीतिः 'दृष्टात्' प्रत्यक्षात् भवति 'अतीन्द्रियाणां' तु प्रतीतिः 'अनुमानात्' भवति - ' तस्मात् ' अनुमानात् अपि केचित् पदार्थाः प्रत्येतुं न शक्याः - : - तेषां प्रतीतिस्तु ' आप्तागमात् ' सिध्यति -- इति ॥ त. कौ. २