________________
सूक्ष्मशरीरस्यावश्यकत्वप्रदर्शनम् । [सां. त. स्यादेतत्-बुद्धिरेव साहकारेन्द्रिया कस्मान्न संसरति ? कृतं सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह
'चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥ "चित्रम्” इति । लिङ्गनात् ज्ञापनात् बुद्धयादयो 'लिङ्गम् ', तत् अना.
श्रयन्न तिष्ठति । जन्ममरणान्तराले बुद्धयादयः प्रत्यु( १९३) सूक्ष्मशरीर- त्पन्नशरीराश्रयाः, -प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति स्यावश्यकत्वप्रदर्शनम् ॥ बुद्ध्यादित्वात् - दृश्यमानशरीरवृत्तिबुद्धधादिवत् ।
“विना विशेषैः " इति, सूक्ष्मैः शरीरित्यर्थः । भागमश्चात्र भवति
"ततः सत्यवतः कायात् पाशबद्धं वशङ्गतम् ।
अगुष्ठमात्रं पुरुषं निश्चकर्ष बलायमः " ( महाभारत वनपर्व-अध्याय २९६.) इस्यङ्गुष्ठमात्रत्वेन सूक्ष्मशरीरत्वमुपलक्षयति । आत्मनो निष्कर्षासम्भवात् सूक्ष्ममेव शरीरम् 'पुरुषः', तदपि पुरि स्थूलशरीरे शेते इति ॥ ४ ॥ एवं सूक्ष्मशरीरास्तित्वमुपपाथ यथा संसरति, येन हेतुना च-तदुभयमाह
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ "पुरुषार्थहेतुकम्" इति । पुरुषार्थेन हेतुना प्रयुक्तम् । “ निमित्तम् "
धर्माधर्मादि, “नौमत्तिकम् ” तेषु तेषु निकायेषु ( १९४ ) सूक्ष्मशरीर- यथायथं षाटकौशिकशरीरग्रहः, स हि धर्मादिनिमित्त. संसरणप्रकारः॥ प्रभवः । निमित्तम्च नैमित्तिकन्च-तत्र यः प्रसङ्गः
प्रसक्तिस्तया " नटवद्व्यवतिष्ठते लिङ्गम्" सूक्ष्मशरीरम् । यथा हि नटस्तां तां भूमिकां विधाय परशुरामो वा ऽजातशत्रुर्वा
१. केचिदिमां कारिकां स्थूलशरीरपरतया व्याख्याय 'लिङ्गम् ' लिङ्गशरीरं 'विशेषैः' स्थूलशरीरौरत्याहुः ॥ अन्ये तु 'लिङ्गम् ' लिङ्गशरीरं 'विशेषैः' लिङ्गशरीराधिष्ठानभूतैः सूक्ष्मशरीरौरीत । एतन्मते शरीरत्रयम्-लिङ्गशरीरम् , तदधिष्ठानभूतं सूक्ष्मशरीरम् , तदधिष्ठानभूतं च स्थूलशरीरमिति ।