________________
मांगूझालकप्रभृति ७२ राणकपरिकरितश्रीजयसिंहदेवेन ग्रीष्मे क्रीडोद्यानं गतेन मार्गमिलितश्रीरामचन्द्रक्षुल्लः पृष्टः-कथं ग्रीष्मे दिवसा गुरुतराः ' । रामचन्द्रः प्राह
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धाववीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात्। वातोडूतरजोमिलत्सुरसरित्संजातपङ्कस्थलीदूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥१९३॥ चमत्कृतेन सिद्धराजेनोक्तम्-सद्यो नगरं वर्णय पत्तनाभिधानम् । एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये नाथ ! सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सूत्र्य वाहावलीतन्त्रीकां गुरुसिद्धभूपतिसरस्तुम्बी निजां कच्छपीम् ॥१९॥ तुष्टेन सर्वसमक्षं कविकटारमल्लेति बिरुदं दत्तम् ॥एकदा स्तम्भपुरे समुद्रोपकण्ठवर्तिनि सिद्धराजे चारणेनोक्तम्
को जाणइ को नाह चिन्तु तुहारउं चक्कबइ।लहु लंकह लेवाह मग्ग निहालइ करण उत्त ॥ १९५ ॥ द्वितीयेनोक्तम्-धाइ धोयापाय जयसिंह जलनिहि ताह । रातइ गहिआ सविराय इक्क बिभीषण मिल्हिमह ॥१९६॥ |
द्वयोः सहस्रदानम् । सो जयउ कूडगंछो तिहुअणमॉमि जेसलनरिन्दो । छित्तूण रायवंसे इक्कं छत्तं कयं जेण ॥ १९७ ॥
1०००००००००००००००००००००००००००००००००००००००००००००००००००