SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ०००००००० 0000000000000000०००००००००००००००००००००००००००००००००00000. इत्यनुकम्पादानं भोजस्य ॥ तथा श्रीविक्रमादित्यभूपालेनाऽपि सौवर्णपुरुषप्रसादात् पृथ्वी सुवर्णार्पणादनृणीकृता । अद्यापि तस्य संवत्सरः प्रवर्त्तते । एकदा निच्छारके शालिकूरकणाः पतिताः, हस्तिस्कन्धादवतीर्य विक्रमार्केण मस्तके दत्ताः, तवसरेऽन्नाधिष्ठायिका लक्ष्मीदेवी तुष्टा प्रत्यक्षीभूता वरं वृणु वदन्ती नृपेण लोकानुकम्पया मालवमण्डले दुर्भिक्षपतनाभाववरो मार्गितः, दत्त आचन्द्रार्कम् । अद्यापि दुर्बललोकानां टुप्काले मालवदेश एवाधारः। आर्ते दर्शनमागते दशशती संभाषणे चायुतं यहाचा च हसेऽहमाशु भवता लक्षोऽस्य विश्राण्यताम् ।। निष्काणां परितोषणे मम पुनः कोटिर्मदाज्ञापरा कोशाधीश ! सदेति विक्रमनृपश्चक्रे वदान्यः स्थितिम् ॥१२४॥ किं बहुना जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं रूवं अप्पडिरूवमुज्जलतरा कती धणं जुब्बणं । दीहं आउमवञ्चणो परिअणो पुत्ता सुपत्तासया । तं सव्वं सचराचरंमि वि जये नूणं दयाए फलं ॥१२५॥ ____ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगतः श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपासंकुलम् ॥१२६॥ ०००००००००००००००००००००० (४४) 000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy