SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 1000000000००००००००००००००००००००००००००००००००००० एवंविधावसरे जगडूकीर्ति श्रुत्वा स्पईया वीसलदेवराजेन विश्वलनगरे सत्रागारो मण्डितः । संपत्त्यभावातैलं परिवेषयति स्म । तत्र चारणोक्तिः वीसलदे विरूउं करइ जगडू कहावइ जी । तुं परीसइ फालिसिउं एउ परीसइ घी॥ ११९ ॥ तदनु मत्सरं मुक्त्वा जगडूपाान्निजप्रणामकरणं निषिद्धम्। प्रभाते यत्रोपविश्य दानमण्डपिकायां द्रव्यदानं ददाति जगडूः, तत्र यवनिका बन्धयति, लज्जया ये कुलीनाः प्रकटं न गृह्णन्ति तेषां दानार्थम् । सलज्जा यवनिकान्तरिताः खकर जगडूअग्रे विस्तारयन्ति । तदनु यथाभाग्यानुसारेण हाटकटङ्कस्पर्द्धकद्रम्मशतद्विशतादि ददाति । अत्रावसरे विसलदेवभूपः स्वभाग्यपरीक्षार्थ वस्त्रादिवेषं परावत्यकाकी निजकरं । यवनिकान्तःस्थो धारयामास । जगडूर्नानाप्रकारलक्षणताम्रताकठिनताधनभाग्यसम्पद्यशःसौख्यविद्यादिबहुरेखाङ्कितं तं करं दृष्टा जगजनमान्यस्य कस्यापि नरेन्द्रस्य संप्रतीदृशीमवस्थां प्राप्तस्य तथा करोमि यथा यावज्जीवं सुखीस्यादिति विचिन्त्य स्खकराङ्गुलीतो मणिमाण्डितमुद्रिका उत्तार्य प्रदत्ता । सत्कौतुकेन भूपेन क्षणं स्थित्वा वामः करो धारितः, तत्रापि द्वितीया मुद्रिका दत्ता । मुद्राद्वयं गृहीत्वा भूपः स्वावासे गतः । द्वितीयदिने जगडूसाधुमाकार्य किमेतदिति दर्शितवान् मुद्रिकाद्वयम् ? । जगडूसाधुनोक्तम् (४२) 0000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy