________________
00000000000000000000000000000000000000000000000000000
| प्यति । राज्ञोक्तम्-कथं ज्ञायते भोजः । तेनोक्तम्-मधुरवाण्या । तुष्टेन राज्ञा स्वरोजवाहनं १२प्रामाधिपत्यं दत्तम् ॥ इति धर्मोपदेशः १२ ॥
उपदेशतरङ्गिण्यां पञ्चमोऽभूत्तरङ्गकः । धर्मोपदेशनामाऽयं रत्नमन्दिरनिर्मितः ॥ १॥ इति श्रीतपागच्छाधिनायकश्रीसोमसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिपं०नन्दिरत्नगणिशिप्य-रत्नमन्दिरगणिगुम्फितायामुपदेशतरङ्गिण्यां धर्मोपदेशरूपः पञ्चमस्तरङ्गः समाप्तः। नयस्त्रिंशच्छतान्यत्र ३३०० श्लोकसंख्या प्रकीर्तिता । उपदेशतरङ्गिण्यां समग्राक्षरमेलने ॥ २ ॥
(२८०)