SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 00000000000 वाञ्छितं ददति । श्रीवस्तुपालादीनां स्वनं दत्त्वा दक्षिणावर्तशङ्खकृष्णचित्रावलिप्रभृतयो मिलिताः । स श्रीधर्मो युष्माकं सौख्यलक्ष्मीं विस्तारयतु ॥ इति श्रीधर्मोपदेशो द्वितीयः २ ॥ -- आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह सदा जयो वाञ्छिताऽवाप्तिः ॥ १ ॥ धर्मादारोग्यं स्याद् यथा-श्री आदिनाथस्य ८४ पूर्वलक्षमध्ये शिरोऽर्तिमात्रमपि नाऽजनि । संवत्सरतपःपारणेऽपि सबलेक्षुरससहनम्, व्याख्यानादौ श्रमाभावः ॥ सौभाग्यं च यथा - वसुदेवस्य सामान्यत्वेऽपि ३२सहस्रकन्यापाणिग्रहणम् । यदुक्तम्- - किं आसि नांदणस्स ० ॥ २ ॥ विज्जाहरीहिं सहरिसं नरिन्ददुहिआहिं अहमहंतीहिं । जं पत्थिज्जउ तइया वसुदेवो तं तवस्स फलं ॥३॥ धनाढ्यता, यथा-- श्रीशालिभद्रस्य । स्वर्भोगभङ्गी नृपतिक्रयाणकं सुवर्णनिर्माल्यमभूत् स्रगादिवत् । भूपस्य मानेऽप्यपमानचिन्तनं शालेर्महाश्चर्यकरं चतुष्टयम् ॥ ४ ॥ श्रीवस्तुपालस्य चाणहिल्लपत्तनादि५४स्थानेषु पृथक् पृथक् षट्पञ्चाशत्कोटिद्रव्योपरि ५४ भुङ्गलवाद - (२५७)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy