________________
भक्तिर्जिनेषु दृढता गुरुभाषितेषु श्रद्धा च धर्मकरणेषु गुणेषु रागः ।
दानेषु तीव्ररुचिता विनयेषु वृत्तिः कस्यापि पुण्यपुरुषस्य भवन्त्यवश्यम् ॥ १ ॥
कस्याऽपि पुण्यवतः पुण्यप्रकारा एते संभवन्ति नान्यस्य । यतः -
प्रातपच्चन्द्रं सुरभी नकुलो नकुलीं पयश्च कलहंसः । कृष्णकवल्लीं पक्षी शुद्धं धर्म सुधीर्वेति ॥ २ ॥ जिनभक्तिः । यथा
प्रासादप्रतिमा यात्रा प्रतिष्ठा च प्रभावना । अमार्युद्घोषणादीनि पुष्णन्ति विमलं यशः ॥ ३ ॥ प्रासादप्रतिमापूजासत्रामारिसुपस्तकैः । वात्सल्यसङ्घपूजाद्यैर्धर्माङ्गैर्धार्मिको नरः ॥ ४ ॥ सङ्घाच सङ्घवात्सल्यं शास्त्रारम्भप्रपाटिका । महापूजोद्यापनानि महापुण्यानि पुण्यतः ॥ ५ ॥ मालोद्घट्टनसचैत्यपरिपाटीजिनार्चनैः । ध्वजप्रदानसन्नृत्यगीतस्नात्रमहोत्सवैः ॥ ६ ॥ दृष्टान्ताः-षट्पञ्चाशद्धटीसुवर्णेन श्रीनेमीश्वरेन्द्रमाला सङ्घाधिपपेथडेन परिदधे । तन्नन्दनसं० झांझणदेवेन श्रीशत्रुञ्जयरैवताचलयोः श्रीऋषभ नेमिप्रासादयोः सं० आभूप्रदत्तसर्वप्रासाददेव कुलिकावृक्षादिषु पञ्चवर्णपट्टक्कूलध्वजसहस्रं दृष्ट्वा
(२३९)