________________
000000000000000000000000
चलणकमलो, संसारवासविरत्तचित्तो, अहिसिंचिऊण जेट्ठपुतं मणिरहकुमारं रज्जे, निक्खक्तो महया विभुइए । | केवलिसमीवे परिपालिऊण सामण्णं, समुप्पण्णो विजयविमाणे सुरवरो, तओ चुओ परमपयभाई भविस्सइ।
इयं तेजसारकथा पञ्चशतीग्रन्थप्रमाणाऽस्ति, प्राकृतमनोरमाचरित्रे स्वयं वाच्या । तथा-दीपं विधाय देवानामग्रतः पुनरेव न । गृहकार्य च कर्तव्यं तिर्यगरूपी भवेन्नरः॥ ६॥
इन्द्रपुरेऽजितसेनो नृपः, देवसेनः श्रेष्ठी; तद्हे धनसेनोष्ट्रिकगेहादेकोष्ट्रिका नित्यमेति स्म, धनिकेन | कुट्टनपूर्व वारिताऽपि न तिष्ठति स्म । ततः श्रेष्ठिना मूल्येनाग्राहि; कालेनेष्टा जाता; एकदा धर्मघोषाचार्याः समागताः; तेषां समीपे श्रेष्ठिनाऽपृच्छि । एषा मद्गृहं विना कुतोऽन्यत्र न तिष्ठति । सूरिणोक्तम्-- एषा पूर्वभवे तव माता जिनाग्रे दीपं विधाय तदीपेन खगेहकृत्यान्यकार्षीत् ; धूपाङ्गारेण चुल्हकः संधुक्षितः; | तत्कर्मणाऽनालोचितेनोष्ट्री जाता; पूर्वभवस्नेहाद् गेहं न मुञ्चति॥ तेन हेतुना देवनिर्माल्यमपि स्वल्पमेव ग्राह्यं नाधिकम् ; भोगाद्याशया देवश्रीखण्डतिलकं न कार्यम् ; देवजलेन हस्तपादादि न प्रक्षाल्यम् ; देवद्रव्यं व्याजेन न ग्राह्यम् ॥ इति प्रदीपपूजोपदेशः ११॥
(१८१)