________________
000000
१८ सहस्रव्यवहारिवर्गे खखऋया संमुखागते स एव खासरकल्पः त्रप्पडाधिकः श्रीगुरुभिः प्रावृतः । राज्ञोक्तम्-भगवत्पादा यूयं मदीया गुरवः - एवंविधे कल्पे प्रावृतेऽस्माकं त्रपा स्यात् । श्रीगुरुभिः प्रोक्तम्- त्वयि राज्यं कुर्वति तव साधर्मिका ईदृशा दारिद्र्योपद्रुताः कष्टेन निर्वाहं कुर्वाणाः सन्ति, तत्र भवतां कस्मान्न त्रपा स्यात् ? । अस्माकं तु सामान्यवेषे गुरुतैव; सर्वज्ञोक्ताचारत्वात् । यतः—
. त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरीं वृत्तिं मुनिचर्या कदा श्रयेत् ॥ ५ ॥ तदनु संजातसङ्घवात्सल्येन भग्नसाधर्मिकोद्धरणे सहस्रहाटकार्पणं मया कर्त्तव्यमित्यभिग्रहं जग्राह । एवमेकस्मिन् वर्षे साधर्मिकेभ्यः कोटिदीनारदानम् । एवं चतुर्दशवर्षेषु १४कोटयः सुवर्णस्य दत्ताः । इति श्रीसङ्घार्चोपदेशः पञ्चमः ॥
第!
कल्पोर्वीरुहसन्ततिस्तदजिरे चिन्तामणिस्तत्करे श्लाघ्या कामदुघाऽनघा च सुरभी तस्यावतीर्णा गृहे । त्रैलोक्याधिपतित्वसाधनसहा श्रीस्तन्मुखं वीक्षते सङ्घो यस्य गृहाङ्गणं गुणनिधिः पादैः समाक्रामति ॥१॥ सूरयस्तपागच्छपाः सा० जगसिंहगे देवं नतुं प्राप्ताः । सा० जगसिंहेन